४.१
वृत्ते महति सङ्ग्रामे राज्ञोर्निहतसेनयोः ।
स्थेयाभ्यां गृध्रचक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥
स्थेयाभ्यां गृध्रचक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥
Summary
AI
When a great battle occurred and the armies of both kings were slaughtered, a peace treaty was instantly established through words by the vulture and the cakravāka who remained steadfast.
सारांश
AI
जब दो राजाओं की सेनाएं नष्ट हो गईं, तब गृध्र और चक्रवाक नामक मंत्रियों ने अपनी वाणी की कुशलता से तुरंत संधि करा दी।
राजपुत्रा ऊचुःकथम् एतत् विष्णुशर्मा कथयतिततस्तेन राजहंसेन उक्तम्केनास्मद्दुर्गे निक्षिप्तोग्निः किं पारक्येण किं वास्मद्दुर्गवासिना केनापि विपक्षप्रयुक्तेन चक्रवाको ब्रूतेदेव ! भवतो निष्कारणबन्धुरसौ मेघवर्णः सपरिवारो न दृश्यते । तन्मन्ये तस्यैव विचेष्टितम् इदम् । राजा क्षणं विचिन्त्याहस्ति तावद् एवम् । मम दुर्दैवम् एतत् । तथा चोक्तम्
४.२
अपराधः स दैवस्य न पुनर्मन्त्रिणाम् अयम् ।
कार्यं सुचरितं क्वापि दैवयोगाद् विनश्यति ॥
कार्यं सुचरितं क्वापि दैवयोगाद् विनश्यति ॥
Summary
AI
This is the fault of fate and not of the ministers. Even a well-executed task can perish somewhere due to the intervention of destiny.
सारांश
AI
यह भाग्य का दोष है, मंत्रियों का नहीं; क्योंकि कभी-कभी अच्छी तरह से किया गया कार्य भी दुर्भाग्य से नष्ट हो जाता है।
४.३
विषमां हि दशां प्राप्य दैवं गर्हयते नरः ।
आत्मनः कर्मदोषांश्च नैव जानात्य् अपण्डितः ॥
आत्मनः कर्मदोषांश्च नैव जानात्य् अपण्डितः ॥
Summary
AI
Having encountered a difficult situation, a person blames fate. An ignorant person does not recognize the faults in their own actions.
सारांश
AI
विपत्ति आने पर मूर्ख व्यक्ति अपने कर्मों के दोष को न जानकर केवल भाग्य को ही कोसता रहता है।
४.४
सुहृदां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥
Summary
AI
One who does not welcome the advice of well-wishing friends perishes like the foolish tortoise who fell from the stick.
सारांश
AI
जो अपने शुभचिंतक मित्रों की सलाह नहीं मानता, वह उस दुर्बुद्धि कछुए की भाँति नष्ट हो जाता है जो लकड़ी से गिर पड़ा था।
४.५
रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् ।
हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥
हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥
Summary
AI
Advice should always be adhered to; destruction results from violating words, just as the tortoise fell while being carried by the two swans.
सारांश
AI
अपनी वाणी की रक्षा सदा करनी चाहिए क्योंकि बोलने से ही विनाश संभव है, जैसे हंसों द्वारा ले जाए जाते समय कछुए का पतन हुआ।
राहाह्कथम् एतत् मन्त्री कथयति अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं सङ्कटविकटनामानौ हंसौ निवसतः । तयोर्मित्रं कम्बुग्रीवनामा कूर्मश्च प्रतिवसति । अथैकदा धीवरैरागत्य तथोक्तं यत्त्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्याः । तद् आकर्ण्य कूर्मो हंसाव् आह्सुहृदौ ! श्रुतोयं धीवरालापः । अधुना किं मया कर्तव्यम् हंसाव् आहतुःज्ञायतां तावत् । पुनस्तावत् प्रातर्यद् उचितं तत् कर्तव्यम् । कूर्मो ब्रूतेमैवम् । यतो दृष्टव्यतिकरोहम् अत्र । यथा चोक्तम्
४.६
अनागतविधाता च प्रत्युत्पन्नमतिस्तथा ।
द्वाव् एव सुखम् एधेते यद्भविष्यो विनश्यति ॥
द्वाव् एव सुखम् एधेते यद्भविष्यो विनश्यति ॥
Summary
AI
Both Anāgatavidhātṛ (one who provides for the future) and Pratyutpannamati (one who is quick-witted) prosper happily, while Yadbhaviṣya (one who relies on fate) perishes.
सारांश
AI
संकट से पूर्व सावधान होने वाला और तत्काल बुद्धि का प्रयोग करने वाला सुख पाते हैं, जबकि भाग्य भरोसे रहने वाला नष्ट हो जाता है।
ताव् ऊचतुःकथम् एतत् कूर्मः कथयति पुरास्मिन्न् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्यत्रयेणालोचितम् । तत्रानागतविधाता नामैको मत्स्यः । तेनोक्तंहं तावज्जलाशयान्तरं गच्छामि । इत्य् उक्त्वा स ह्रदान्तरं गतः । अपरेण प्रत्युत्पन्नमतिनाम्ना मस्त्येनाभिहितम्भविष्यद्अर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् तद् उत्पन्ने यथाकार्यं तद् अनुष्ठेयम् । तथा चोक्तम्
४.७
उत्पन्नाम् आपदं यस्तु समाधत्ते स बुद्धिमान् ।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥
Summary
AI
He who resolves a calamity that has already arisen is wise, just as the lover was concealed by the merchant’s wife even when caught in the act.
सारांश
AI
जो सामने आई विपत्ति का समाधान तुरंत कर ले वही बुद्धिमान है, जैसे व्यापारी की पत्नी ने सबके सामने अपने प्रेमी को चतुराई से छिपा लिया।
४.८
न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते ।
गावस्तृणम् इवारण्ये प्रार्थयन्ते नवं नवम् ॥
गावस्तृणम् इवारण्ये प्रार्थयन्ते नवं नवम् ॥
Summary
AI
To women, no one is truly disliked, nor does anyone truly remain beloved. Like cows in a forest seeking grass, they constantly desire someone new.
सारांश
AI
स्त्रियों के लिए कोई विशेष प्रिय या अप्रिय नहीं होता; वे जंगल की गायों की तरह सदा नवीन की खोज में रहती हैं।
४.९
आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥
षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ॥
Summary
AI
It is said that women possess twice the appetite, four times the intelligence, six times the resolve, and eight times the desire of men.
सारांश
AI
स्त्रियों का भोजन पुरुषों से दुगुना, बुद्धि चौगुनी, साहस छह गुना और कामेच्छा आठ गुना बताई गई है।
४.१०
यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा ।
इति चिन्ताविषघ्नोयम् अगदः किं न पीयते ॥
इति चिन्ताविषघ्नोयम् अगदः किं न पीयते ॥
Summary
AI
'What is not to be will not happen; if it is to be, it cannot be otherwise.' Why is this medicine, which destroys the poison of worry, not consumed?
सारांश
AI
जो नहीं होना है वह नहीं होगा और जो होना है वह बदल नहीं सकता; चिंता रूपी विष को दूर करने वाली यह औषधि लोग क्यों नहीं पीते?
ततः प्रातर्जालेन बद्धः प्रत्युत्पन्नमतिर्मृतवद् आत्मानं सन्दर्श्य स्थितः । ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः । यद्भविष्यश्च धीवरैः प्राप्तो व्यापादितः । अतोहं ब्रवीमिनागतविधाता च इत्य् आदि । तद् यथाहम् अन्यं ह्रदं प्राप्नोमि तथा क्रियताम् । हंसाव् आहतुःजलाशयान्तरे प्राप्ते तव कुशलम् । स्थले गच्छतस्ते को विधिः कूर्म आह्यथाहं भवद्भ्यां सहाकाशवर्त्मना यामि, तथा विधीयताम् । हंसाव् ब्रूतःकथम् उपायः सम्भवति कच्छपो वदतियुवाभ्यां चञ्चुधृतं काष्ठखण्डम् एकं मया मुखेनावलम्बितव्यम् । ततश्च युवयोः पक्षबलेन मयापि सुखेन गन्तव्यम् । हंसौ ब्रूतःसम्भवत्य् एष उपायः । किन्तु
४.११
उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् ।
पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥
पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥
Summary
AI
A wise person should think of the remedy but must also consider the potential danger. While the foolish crane watched, its offspring were devoured by mongooses.
सारांश
AI
बुद्धिमान को उपाय के साथ अनिष्ट का भी सोचना चाहिए; जैसे मूर्ख बगुले के देखते-देखते नेवलों ने उसके बच्चों को खा लिया था।
अस्त्य् उत्तरापथे गृध्रकूटनाम्नि पर्वते महान् पिप्पलवृक्षः । तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद् विवरे सर्पस्तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्धबकेनाभिहितंभो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुलविवराद् आरभ्य सर्पविवरं यावत्पङ्क्तिक्रमेण एकैकशो विकिरत । ततस्तद्आहारलुब्धैर्नकुलैरागत्य सर्पो द्रष्टव्यः । स्वभावद्वेषाद् व्यापदयितव्यश्च । तथानुष्ठिते सति तद् वृत्तम् । अथ नकुलैर्वृक्षोपरि बकशावकानां रावः श्रुतः । पश्चात् तद्वृक्षम् आरुह्य बकशावकाः खादिताः । अत आवां ब्रूवःुपायं चिन्तयन् इत्य् आदि । आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव । यदि त्वम् उत्तरं दास्यसि, तदा त्वन्मरणम् । तत् सर्वथैव स्थीयताम् । कूर्मो वदतिकिम् अहम् अप्राज्ञः नाहम् उत्तरं दास्यामि । न किम् अपि मया वक्तव्यम् । तथानुष्ठिते तथाविधं कूर्मम् आलोक्य सर्वे गोरक्षकाः पश्चाद् धावन्ति, वदन्ति चहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते । कश्चिद् वदतियद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः । कश्चिद् वदतिसरसस्तीरे दग्ध्वा खादितव्योयम् । कश्चिद् वदतिगृहं नीत्वा भक्षणीयः । इति । तद्वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसंस्कारः प्राह्युष्माभिर्भस्म भक्षितव्यम् इति वदन्न् एव पतितस्तैर्व्यापादितश्च । अतोहं ब्रवीमिसुहृदां हितकामानाम् इत्य् आदि । अथ प्रणिधिर्बकस्तत्रागत्योवाच्देव ! प्राग् एव मया निगदितं दुर्गशोध हि प्रतिक्षणं कर्तव्यम् इति । तच् च युष्माभिर्न कृतं, तद्अनवधानस्य फलम् इदम् अनुभूतम् । दुर्गदाहो मेघवर्णेन वायसेन गृध्रप्रत्युक्तेन कृतः । राजा निःश्वस्याह्
४.१२
प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु ।
स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥
स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥
Summary
AI
One who trusts enemies due to affection or a past favor wakes up only after falling, like a sleeping person tumbling from the top of a tree.
सारांश
AI
जो स्नेह या उपकार के वश शत्रुओं पर विश्वास करता है, वह वृक्ष की चोटी पर सोए हुए व्यक्ति की तरह गिरकर ही जागता है।
४.१३
कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् ।
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥
Summary
AI
One should never disregard the service of a servant who has accomplished his task. He should be delighted with rewards, thoughts, speech, and a favorable gaze.
सारांश
AI
सफल सेवक के कार्य की उपेक्षा नहीं करनी चाहिए; उसे पुरस्कार, मन, मधुर वाणी और स्नेहपूर्ण दृष्टि से प्रसन्न रखना चाहिए।
४.१४
अविचारयतो युक्तिकथनं तुषखण्डनम् ।
नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥
नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥
Summary
AI
O King, offering logical arguments to one who does not deliberate is like threshing chaff. A favor bestowed upon the base is like urinating on sand.
सारांश
AI
विचारहीन व्यक्ति को सलाह देना भूसा कूटने के समान व्यर्थ है और नीच पर किया उपकार रेत में मूत्र त्यागने जैसा निष्फल है।
४.१५
नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुम् इच्छति ।
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥
मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥
Summary
AI
A base person, having attained a praiseworthy position, desires to kill his master, just as the mouse, having attained the form of a tiger, went to kill the sage.
सारांश
AI
नीच व्यक्ति उच्च पद पाकर अपने स्वामी का ही अनिष्ट करना चाहता है, जैसे बाघ बना चूहा अपने रक्षक मुनि को ही मारने चला था।
चित्रवर्णः पृच्छतिकथम् एतत् मन्त्री कथयति अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः । तत्र तेन आश्रमसंनिधाने मूषिकशावकः काकमुखाद् भ्रष्टो दृष्टः । ततो दयायुक्तेन तेन मुनिआ नीवारकणैः संवर्धितः । ततो बिडालस्तं मूषिकं खादितुम् उपधावति । तम् अवलोक्य मूषिकस्तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम्मूषिक ! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तंकुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद् बिभेति ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः । अथ तं व्याघ्रं मुनिर्मूषिकोयम् इति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्तिनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच् छ्रुत्वा सव्यथो व्याघ्रोचिन्तयत्यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस्तं मुनिं हन्तुं गतः । ततो मुनिना तज् ज्ञात्वापुनर्मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः । अतोहं ब्रवीमिनीचः श्लाघ्यपदं प्राप्येत्य् आदि ॥ अपरं च, देव ! सुकरम् इदम् इति न मन्तव्यम् । शृणु
४.१६
भक्षयित्वा बहून्मत्स्यान् उत्तमाधममध्यमान् ।
अतिलोभाद् बकः पश्चान् मृतः कर्कटकग्रहात् ॥
अतिलोभाद् बकः पश्चान् मृतः कर्कटकग्रहात् ॥
Summary
AI
After devouring many fish—superior, inferior, and middling—the crane eventually died due to excessive greed from the grip of a crab.
सारांश
AI
सभी प्रकार की मछलियाँ खाने के बाद, वह बगुला अत्यधिक लोभ के कारण अंत में केकड़े के चंगुल में फंसकर मारा गया।
चित्रवर्णः पृच्छतिकथम् एतत् मन्त्री कथयति अस्ति मालवविषये पद्मगर्भाभिधानं सरः । तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश्च्किम् इति भवान् अत्राहारत्यागेन तिष्ठति बकेनोक्तम्मत्स्या मम जीवनहेतवः । ते कैवर्तैरागत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावाद् एवास्मन्मरणम् उपस्थितम् इति ज्ञात्वाहारेप्यनादरः कृतः । ततो मत्स्यैरालोचितमिह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयम् एव यथाकर्तव्यं पृच्छ्यताम् । तथा चोक्तम्
४.१७
उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा ।
उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥
उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥
Summary
AI
An alliance should be made with a helpful enemy, not with a harmful friend. Indeed, benefit and harm are the true indicators of these two.
सारांश
AI
उपकार करने वाले शत्रु से संधि कर लेनी चाहिए, पर अहितकारी मित्र से नहीं; क्योंकि उपकार और अपकार ही इनके वास्तविक लक्षण हैं।
मत्स्या ऊचुःभो बक ! कोत्र अस्माकं रक्षनोपायः बको ब्रूतेस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहम् एकैकशो युष्मान् नयामि । मत्स्या आहुः एवम् अस्तु । ततोसौ दुष्टबकस्तान्मत्स्यान् एकैकशो नीत्वा खादति । अनन्तरं कुलीरस्तम् उवाच्भो बक ! माम् अपि तत्र नय । ततो बकोप्यपूर्वकुलीरमांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरोपि मस्त्यकण्टकाकीर्णं तं स्थलम् आलोक्याचिन्तयत्हा हतोस्मि मन्दभाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः
४.१८
तावद् भयेन भेतव्यं यावद् भयम् अनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥
आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥
Summary
AI
One should be afraid of danger only as long as it has not arrived. However, seeing danger approach, one should strike back fearlessly.
सारांश
AI
आने वाले भय से तभी तक डरना चाहिए जब तक वह आया न हो; संकट सामने आने पर निडर होकर उस पर प्रहार करना चाहिए।
४.१९
अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥
Summary
AI
When attacked and seeing no other recourse for himself, a wise person dies while fighting alongside his enemy.
सारांश
AI
जब बचने का कोई उपाय न दिखे, तब बुद्धिमान व्यक्ति को वीरतापूर्वक युद्ध करते हुए शत्रु के साथ ही प्राण त्याग देने चाहिए।
इत्य् आलोच्य स कुलीरकस्तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतोहं ब्रवीमिभक्षयित्वा बहून्मत्स्यान् इत्य् आदि । ततश्चित्रवर्णोवदत्शृणु तावन्मन्त्रिन् ! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूरद्वीपस्योत्तमानि तावन्त्य् अस्माकम् उपनेतव्यानि । तेनास्माभिर्महासुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याह्देव !
४.२०
अनागतवतीं चिन्तां कृत्वा यस्तु प्रहृष्यति ।
स तिरस्कारम् आप्नोति भग्नभाण्डो द्विजो यथा ॥
स तिरस्कारम् आप्नोति भग्नभाण्डो द्विजो यथा ॥
Summary
AI
He who rejoices by dwelling on future expectations that have not yet arrived meets with humiliation, just like the brāhmaṇa who broke his pot.
सारांश
AI
जो भविष्य की कोरी कल्पनाओं से प्रसन्न होता है, उसे अपमान ही मिलता है, जैसे खयाली पुलाव में अपने घड़े फोड़ने वाला ब्राह्मण।
अस्ति देवीकोटनाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस्तम् आदायासौ कुम्भकारस्य भाण्डपूर्णमण्डपैकदेशे रौद्रेणाकुलितः सुप्तः । ततः सक्तुरक्षार्थं हस्ते दण्डम् एकम् आदायाचिन्तयत्द्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर्घटशरावादिकम् उपक्रीयानेकधा वृद्धैस्तद्धनैः पुनः पुनः पूर्गवस्त्रादिम् उपक्रीय, विक्रीय लक्षसङ्ख्यानि धनानि कृत्वा, विवाहचतुष्टयं करिष्यामि । अनन्तरं तासु स्वपत्नीषु या रूपयौवनवती तस्याम् अधिकानुरागं करिष्यामि । सपत्न्यो यदा द्वन्द्वं करिष्यामि, तदा कोपाकुलोहं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश्चूर्णितो भाण्डानि च बहूनि भग्नानि । ततस्तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्य् अवलोक्य, ब्राह्मणस्तिरस्कृतो मण्डपाद् बहिष्कृतश्च । अतोहं ब्रवीमि अनागतवतीं चिन्ताम् इत्य् आदि । ततो राजा रहसि गृध्रम् उवाच्तात ! यथा कर्तव्यं तथोपदिश । गृध्रो ब्रूते
४.२१
मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः ।
गच्छन्त्य् उन्मार्गयातस्य नेतारः खलु वाच्यताम् ॥
गच्छन्त्य् उन्मार्गयातस्य नेतारः खलु वाच्यताम् ॥
Summary
AI
Leaders of a king who is intoxicated with pride and wanders off the right path—just like the drivers of a wild elephant—certainly incur blame for his actions.
सारांश
AI
मदोन्मत्त हाथी की तरह कुमार्ग पर चलने वाले अहंकारी राजा के लिए उसके मार्गदर्शक और मंत्री ही निंदा के पात्र होते हैं।
शृणु देव ! किम् अस्माभिर्बलदर्पाद् दुर्गं भग्नम् उत तव प्रतापाधिष्ठितेनोपायेन राजाह्भवताम् उपायेन । गृध्रो ब्रूतेयद्य् अस्मद्वचनं क्रियते, तदा स्वदेशे गम्यताम् । अन्यथा वर्षाकाले प्राप्ते पुनस्तुल्यबलेन विग्रहे सत्य् अस्माकं परभूमिष्ठानां स्वदेशगमनम् अपि दुर्लभं भविष्यति । तत्सुखशोभार्थं सन्धाय गम्यताम् । दुर्गं भग्नं, कीर्तिश्च लब्धेव । मम संमतं तावद् एतत् । यतः
४.२२
यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ॥
अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ॥
Summary
AI
A king is truly well-assisted by that minister who, prioritizing duty and disregarding the personal likes or dislikes of his master, speaks unpleasant but beneficial words.
सारांश
AI
जो मंत्री स्वामी के प्रिय-अप्रिय को त्यागकर धर्मानुसार अप्रिय किंतु हितकारी वचन कहता है, वही राजा का वास्तविक सहायक है।
४.२३
सुहृद्बलं तथा राज्यम् आत्मानं कीर्तिम् एव च ।
युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥
युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥
Summary
AI
What wise person would place his allies' forces, his kingdom, himself, and even his fame upon the swinging cradle of doubt by engaging in war?
सारांश
AI
कोई भी बुद्धिमान व्यक्ति युद्ध की अनिश्चितता में अपने मित्रों, सेना, राज्य, स्वयं और अपनी कीर्ति को जोखिम में नहीं डालता।
४.२४
सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयो युधि ।
नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥
नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥
Summary
AI
One should seek peace even with an equal, as victory in battle is always uncertain. Bṛhaspati stated that one should never leave matters to chance or doubt.
सारांश
AI
समान शक्ति वाले शत्रु के साथ भी संधि कर लेनी चाहिए क्योंकि युद्ध में विजय संदेहास्पद होती है; बृहस्पति के अनुसार किसी भी कार्य को जोखिम में नहीं डालना चाहिए।
४.२५
युद्धे विनाशो भवति कदाचिद् उभयोरपि ।
सुन्दोपसुन्दावन्योन्यं नष्टौ तुल्यबलौ न किम् ॥
सुन्दोपसुन्दावन्योन्यं नष्टौ तुल्यबलौ न किम् ॥
Summary
AI
Sometimes, both parties are destroyed in war. Did not the equally powerful demons Sunda and Upasunda perish by fighting each other?
सारांश
AI
युद्ध में कभी-कभी दोनों पक्षों का विनाश हो जाता है; जैसे समान बलशाली सुन्द और उपसुन्द ने आपस में लड़कर एक-दूसरे को नष्ट कर दिया था।
राजोवाचकथम् एतत् मन्त्री कथयति पुरा दैत्यौ सहोदरौ सुन्दोपसुन्दनामानौ महता कायक्लेशेन त्रैलोक्यराज्यकामनया चिराच् चन्द्रशेखरम् आराधितवन्तौ । ततस्तयोर्भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच । अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् तावन्यद् वक्तुकामावन्यद्अभिहितवन्तौयद्य् आवयोर्भवान् परितुष्टस्तदा स्वप्रियां पार्वतीं परमेश्वरो ददातु । अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया, विचारमूढयोः पार्वती प्रदत्ता । ततस्तस्या रूपलावण्यलुब्धाभ्यां, जगद्घातिभ्यां मससोत्सुकाभ्यां, पापतिमिराभ्याम्, ममेत्य् अन्योन्यं कलहायमानाभ्यां, प्रमाणपुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृद्धद्विजरूपः समागत्य तत्रोपस्थितः । अनन्तरंावाभ्याम् इयं स्वबललब्धा, कस्येयम् आवयोर्भवति इति ब्राह्मणम् अपृच्छताम् । ब्राह्मणो ब्रूते
४.२६
ज्ञानश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि ।
धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया ॥
धनधान्याधिको वैश्यः शूद्रस्तु द्विजसेवया ॥
Summary
AI
A Brāhmaṇa is respected for superior knowledge, a Kṣatriya for strength, a Vaiśya for abundance of wealth and grain, and a Śūdra for service to the twice-born.
सारांश
AI
ज्ञान से श्रेष्ठ ब्राह्मण, बलवान क्षत्रिय, धन-धान्य से संपन्न वैश्य और सेवा भाव रखने वाला शूद्र समाज में पूजनीय माना जाता है।
तद् युवां क्षात्रधर्मानुगौ । युद्द एव युवयोर्नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वान्योन्यतुल्यवीर्यौ, समकालम् अन्योन्यघातेन विनाशम् उपागतौ । अतोहं ब्रवीमिसन्धिम् इच्छेत् समेनापि इत्य् आदि । राजाह्तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः मन्त्री ब्रूतेतदा मद्वचनं किम् अवसानपर्यन्तं श्रुतं भवद्भिः तदापि मम संमत्या नायं विग्रहारम्भः । यतःसाधुगुणयुक्तोयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं
४.२७
सत्यार्थौ धार्मिकोनार्यो भ्रातृसङ्हातवान् बली ।
अनेकयुद्धविजयी सन्धेयाः सप्त कीर्तिताः ॥
अनेकयुद्धविजयी सन्धेयाः सप्त कीर्तिताः ॥
Summary
AI
Seven types of persons are declared fit for alliance: one who is truthful, one who is noble, one who is righteous, even an ignoble person, one with many brothers, the powerful, and the victor of many battles.
सारांश
AI
सत्यवादी, कुलीन, धार्मिक, शक्तिशाली अनार्य, संगठित भाइयों वाला, अत्यंत बलवान और अनेक युद्धों का विजेता—ये सात संधि करने योग्य कहे गए हैं।
४.२८
सत्योनुपालयन् सत्यं सन्धितो नैति विक्रियाम् ।
प्राणबाधेपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ॥
प्राणबाधेपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ॥
Summary
AI
A truthful person, upholding the truth, does not change his nature after a peace treaty. A noble man clearly never resorts to ignobility, even when his life is at stake.
सारांश
AI
सत्यवादी व्यक्ति संधि की शर्तों का पालन करता है और श्रेष्ठ पुरुष प्राण संकट में होने पर भी कभी अपनी मर्यादा और सज्जनता नहीं त्यागता।
४.२९
धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते ।
प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥
प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥
Summary
AI
Everyone fights for a righteous person when he is attacked. Because of the people's affection and his own righteousness, a virtuous king is very difficult to uproot.
सारांश
AI
धार्मिक राजा पर आक्रमण होने पर उसकी प्रजा धर्म और अनुराग के कारण उसके लिए प्राणपण से लड़ती है, जिससे उसे हराना कठिन होता है।
४.३०
सन्धिः कार्योप्यनार्येण विनाशे समुपस्थिते ।
विना तस्याश्रयेणार्यो न कुर्यात् कालयापनम् ॥
विना तस्याश्रयेणार्यो न कुर्यात् कालयापनम् ॥
Summary
AI
When destruction is imminent, one should make peace even with an ignoble person. Without seeking his protection, a noble person cannot sustain himself through difficult times.
सारांश
AI
विनाश निकट होने पर दुष्ट व्यक्ति के साथ भी संधि कर लेनी चाहिए, क्योंकि उसके सहयोग के बिना श्रेष्ठ व्यक्ति भी कठिन समय नहीं काट पाता।
४.३१
संहतत्वाद् यथा वेणुर्निविडैः कण्टकैर्वृतः ।
न शक्यते समुच्छेत्तुं भ्रातृसङ्घातवांस्तथा ॥
न शक्यते समुच्छेत्तुं भ्रातृसङ्घातवांस्तथा ॥
Summary
AI
Just as a bamboo surrounded by dense thorns cannot be uprooted due to its combined strength, similarly, a person who possesses a large circle of brothers cannot be destroyed.
सारांश
AI
जिस प्रकार कांटों से घिरा बाँस का समूह अपनी एकजुटता के कारण उखाड़ा नहीं जा सकता, उसी प्रकार संगठित भाइयों वाले राजा को परास्त करना असंभव है।
४.३२
बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥
प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥
Summary
AI
There is no precedent or rule that one should fight with a stronger foe. A cloud never moves against the direction of the wind.
सारांश
AI
शक्तिशाली शत्रु से युद्ध करने का कोई उदाहरण या औचित्य नहीं है; जैसे बादल कभी हवा के विपरीत नहीं चलता, वैसे ही सामर्थ्यवान से नहीं टकराना चाहिए।
४.३३
जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा ।
अनेकयुद्धजयिनः प्रतापाद् एव भज्यते ॥
अनेकयुद्धजयिनः प्रतापाद् एव भज्यते ॥
Summary
AI
Like the son of Jamadagni (Paraśurāma), a conqueror of many battles causes everyone, everywhere, and at all times to be defeated by his sheer valor alone.
सारांश
AI
परशुराम के समान, अनेक युद्ध जीतने वाले प्रतापी योद्धा के प्रभाव मात्र से ही सभी शत्रु हर समय और हर स्थान पर झुक जाते हैं।
४.३४
अनेकयुद्धविजयी सन्धानं यस्य गच्छति ।
तत्प्रतापेन तस्याशु वशम् आयान्ति शत्रवः ॥
तत्प्रतापेन तस्याशु वशम् आयान्ति शत्रवः ॥
Summary
AI
When a victor of many battles enters into an alliance with someone, that person's enemies quickly come under his control through the power and prestige of that ally.
सारांश
AI
जो अनेक युद्धों के विजेता के साथ संधि करता है, उस विजेता के प्रताप के कारण संधि करने वाले के शत्रु भी शीघ्र उसके वश में आ जाते हैं।
४.३५
बालो वृद्धो दीर्घरोगी तथाज्ञातिबहिष्कृतः ।
भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥
भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥
Summary
AI
A child, an old man, a long-term invalid, one cast out by kinsmen, a coward, one whose people are cowards, a greedy man, and one whose people are greedy are unfit for alliance.
सारांश
AI
बालक, वृद्ध, रोगी, अपनों द्वारा त्यागा गया, कायर, कायर सेना वाला, लोभी और लोभी अनुयायियों वाला व्यक्ति संधि के योग्य नहीं होता।
४.३६
विरक्तप्रकृतिश्चैव विषयेष्व् अतिसक्तिमान् ।
अनेकचित्तमन्त्रस्तु देवब्राह्मणनिन्दकः ॥
अनेकचित्तमन्त्रस्तु देवब्राह्मणनिन्दकः ॥
Summary
AI
One whose subjects are disaffected, one overly addicted to sensual pleasures, one who is indecisive in counsel, and one who reviles the gods and Brāhmaṇas are unfit for alliance.
सारांश
AI
असंतुष्ट प्रजा वाला, विषयासक्त, अस्थिर बुद्धि और देवताओं व ब्राह्मणों की निंदा करने वाला व्यक्ति भी संधि के अयोग्य माना जाता है।
४.३७
दैवोपहतकश्चैव तथा दैवपरायणः ।
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥
Summary
AI
One struck by fate, one who relies solely on destiny, one suffering from famine, and one whose army is in distress are among those with whom peace should not be sought.
सारांश
AI
भाग्य का मारा, केवल भाग्य पर आश्रित, अकाल या आपदा से पीड़ित और संकटग्रस्त सेना वाला राजा युद्ध में आसानी से हार जाता है।
४.३८
अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न ।
सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥
सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥
Summary
AI
One in an unsuitable place, one with many enemies, one who does not act at the right time, and one devoid of truth and righteousness—these are the twenty types of men with whom one should not make peace.
सारांश
AI
स्वदेश से बाहर स्थित, अनेक शत्रुओं वाला, समय का ज्ञान न रखने वाला और सत्य-धर्म विहीन—ये बीस प्रकार के व्यक्ति संधि के योग्य नहीं हैं।
४.३९
एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् ।
एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम् ॥
एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम् ॥
Summary
AI
One should not make peace with these twenty types of individuals; rather, one should only wage war against them. When attacked, such people quickly fall under the control of the enemy.
सारांश
AI
इन बीस प्रकार के व्यक्तियों से संधि न करके केवल युद्ध करना चाहिए, क्योंकि आक्रमण होने पर ये शीघ्र ही शत्रु के अधीन हो जाते हैं।
४.४०
बालस्याल्पप्रभावत्वान् न लोको योद्धुम् इच्छति ।
युद्धायुद्धफलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥
युद्धायुद्धफलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥
Summary
AI
People do not wish to fight for a child because of his meager influence, and because an ignorant child is unable to understand the consequences of war or peace.
सारांश
AI
अल्प प्रभाव के कारण प्रजा बालक के लिए युद्ध नहीं करना चाहती और बालक स्वयं भी युद्ध के लाभ-हानि को समझने में अक्षम होता है।
४.४१
उत्साहशक्तिहीनत्वाद् वृद्धो दीर्घामयस्तथा ।
स्वैरेव परिभूयेते द्वावप्य् एतावसंशयम् ॥
स्वैरेव परिभूयेते द्वावप्य् एतावसंशयम् ॥
Summary
AI
One who lacks energy, one who is aged, and one who suffers from a chronic disease are undoubtedly overcome by their own people.
सारांश
AI
उत्साह की कमी, वृद्धावस्था और लंबी बीमारी के कारण व्यक्ति अपने ही लोगों द्वारा तिरस्कृत होता है, इसमें कोई संदेह नहीं है।
४.४२
सुखच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः ।
त एवैनं विनिघ्नन्ति ज्ञातयस्त्व् आत्मसात्कृताः ॥
त एवैनं विनिघ्नन्ति ज्ञातयस्त्व् आत्मसात्कृताः ॥
Summary
AI
One cast out by all his kinsmen is easily uprooted. However, those same kinsmen, if won over by an enemy, are the very ones who destroy him.
सारांश
AI
अपने सगे-संबंधियों से बहिष्कृत व्यक्ति को नष्ट करना आसान है, क्योंकि शत्रु द्वारा वश में किए गए वे ही आत्मीयजन उसका विनाश कर देते हैं।
४.४३
भीरुर्युद्धपरित्यागात् स्वयम् एव प्रणश्यति ।
तथैव भीरुपुरुषः सङ्ग्रामे तैर्विमुच्यते ॥
तथैव भीरुपुरुषः सङ्ग्रामे तैर्विमुच्यते ॥
Summary
AI
A coward perishes by himself because he abandons the battle. Similarly, a cowardly man is abandoned by his own comrades in the midst of a conflict.
सारांश
AI
युद्ध छोड़कर भागने वाला कायर व्यक्ति स्वयं ही नष्ट हो जाता है और रणभूमि में उसके साथी भी उसका साथ छोड़ देते हैं।
४.४४
लुब्धस्यासंविभागित्वान् न युध्यन्तेनुजीविनः ।
लुब्धानुजीवी तैरेव दानभिन्नैर्निहन्यते ॥
लुब्धानुजीवी तैरेव दानभिन्नैर्निहन्यते ॥
Summary
AI
Because a miser does not share his wealth, his followers do not fight for him. A leader of the greedy is slain by those very followers when they are won over by the enemy's gifts.
सारांश
AI
लोभी राजा के सेवक धन के बँटवारे के अभाव में युद्ध नहीं करते और शत्रुओं द्वारा लालच देकर फोड़े गए वे सेवक ही अपने स्वामी को मार देते हैं।
४.४५
सन्त्य् अज्यते प्रकृतिभिर्विरक्तप्रकृतिर्युधि ।
सुखाभियोज्यो भवति विषयेवतिसक्तिमान् ॥
सुखाभियोज्यो भवति विषयेवतिसक्तिमान् ॥
Summary
AI
One whose subjects are alienated is abandoned by them in battle. One who is excessively attached to sensual pleasures is easily assailed and conquered.
सारांश
AI
मंत्रियों और प्रजा के विरक्त होने पर राजा युद्ध में अकेला रह जाता है और भोग-विलास में अत्यधिक आसक्त राजा को शत्रु सुगमता से हरा देता है।
४.४६
अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थितचित्तत्वात् कर्यतः स उपेक्ष्यते ॥
अनवस्थितचित्तत्वात् कर्यतः स उपेक्ष्यते ॥
Summary
AI
A leader who wavers or consults too many minds becomes hateful to his ministers. Due to his unstable mind, he is neglected during the execution of tasks.
सारांश
AI
चंचल बुद्धि और अनेक लोगों से परामर्श करने वाला राजा मंत्रियों की घृणा का पात्र बनता है और उसकी अस्थिरता के कारण कार्यों में उसकी उपेक्षा होती है।
४.४७
सदाधर्मबलीयस्त्वाद् देव ब्राह्मणनिन्दकः ।
विशीर्यते स्वयं ह्य् एष दैवोपहतकस्तथा ॥
विशीर्यते स्वयं ह्य् एष दैवोपहतकस्तथा ॥
Summary
AI
One who constantly reviles the gods and *Brāhmaṇas* due to the dominance of unrighteousness, as well as one struck by fate, perishes by his own hand.
सारांश
AI
देवताओं और ब्राह्मणों की निंदा करने वाला व्यक्ति भाग्य की मार और धर्म की शक्ति के प्रभाव से स्वयं ही नष्ट हो जाता है।
४.४८
सम्पत्तेश्च विपत्तेश्च दैवम् एव हि कारणम् ।
इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥
इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥
Summary
AI
Believing that fate alone is the cause of prosperity and adversity, one who relies solely on destiny fails to exert any personal effort.
सारांश
AI
सफलता और असफलता का आधार केवल भाग्य को मानकर जो व्यक्ति हाथ पर हाथ धरे बैठा रहता है, वह पुरुषार्थहीन होकर नष्ट हो जाता है।
४.४९
दुर्भिक्षव्यसनी चैव स्वयम् एव विषीदति ।
बलव्यसनसक्तस्य योद्धुं शक्तिर्न जायते ॥
बलव्यसनसक्तस्य योद्धुं शक्तिर्न जायते ॥
Summary
AI
One suffering from famine despairs and perishes on his own. For a leader whose army is in distress or addicted to vice, the strength to fight never arises.
सारांश
AI
अकाल से पीड़ित और व्यसनों में डूबा व्यक्ति स्वयं ही दुखी रहता है। सैन्य शक्ति के दोषों में फँसा हुआ राजा युद्ध करने में असमर्थ होता है।
४.५०
अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते ।
ग्राहोल्पीयान् अपि जले जलेन्द्रम् अपि कर्षति ॥
ग्राहोल्पीयान् अपि जले जलेन्द्रम् अपि कर्षति ॥
Summary
AI
One who is out of his proper place is killed even by a weak enemy. In the water, even a tiny crocodile can drag away a mighty elephant.
सारांश
AI
अपने अनुकूल स्थान पर न होने वाले व्यक्ति को छोटा शत्रु भी हरा सकता है, जैसे जल में छोटा मगरमच्छ भी हाथी को खींच लेता है।
४.५१
बहुशत्रुस्तु सन्त्रस्तः श्येनमध्ये कपोतवत् ।
येनैव गच्छति पथा तेनैवाशु विपद्यते ॥
येनैव गच्छति पथा तेनैवाशु विपद्यते ॥
Summary
AI
Beset by many enemies and terrified like a pigeon among hawks, a person quickly meets disaster on whichever path he chooses to take.
सारांश
AI
अनेक शत्रुओं से घिरा व्यक्ति बाजों के बीच फँसे कबूतर की तरह डरा रहता है और वह जिस मार्ग पर भी जाता है, विपत्ति में फँस जाता है।
४.५२
अकालयुक्तसैन्यस्तु हन्यते कालयोधिना ।
कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥
कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥
Summary
AI
A leader whose army is deployed at the wrong time is destroyed by an enemy who strikes at the right time, just as a crow is killed by an owl at midnight.
सारांश
AI
गलत समय पर सेना का प्रयोग करने वाला राजा सही समय पर युद्ध करने वाले शत्रु द्वारा वैसे ही मारा जाता है, जैसे रात में उल्लू कौवे को मार देता है।
४.५३
सत्यधर्मव्यपेतेन सन्दध्यान् न कदाचन ।
स सन्धितोप्यसाधुत्वाद् अचिराद् याति विक्रियाम् ॥
स सन्धितोप्यसाधुत्वाद् अचिराद् याति विक्रियाम् ॥
Summary
AI
One should never make a treaty with a person devoid of truth and righteousness. Even if an alliance is formed, his wicked nature soon leads him to treachery.
सारांश
AI
सत्य और धर्म से विमुख व्यक्ति के साथ कभी संधि नहीं करनी चाहिए, क्योंकि वह दुष्ट स्वभाव के कारण संधि के बाद भी शीघ्र विश्वासघात करता है।
अपरम् अपि कथयामिसन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षाड्गुण्यम् । कर्मणाम् आरम्भोपायः । पुरुषद्रव्यसम्पत् । देशकाविभागः । विनिपातप्रतीकारः । कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः । सामदानभेददण्डाश्चत्वार उपायाः । उत्साहशक्तिः, मन्त्रशक्तिः, प्रभु शक्तिश्चेति शक्तित्रयम् । एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवन्ति महान्तः । यतः
४.५४
या हि प्राणपरित्यागमूल्येनापि न लभ्यते ।
सा श्रीर्नीतिविदं पश्य चञ्चलापि प्रधावति ॥
सा श्रीर्नीतिविदं पश्य चञ्चलापि प्रधावति ॥
Summary
AI
Behold, though Fortune (*Śrī*) is fickle and often not obtained even at the cost of one's life, she runs toward one who is well-versed in political ethics (*nīti*).
सारांश
AI
जो लक्ष्मी प्राणों के मोह को त्यागने पर भी नहीं मिलती, वह नीति के ज्ञाता के पास चंचल होने पर भी स्वयं चलकर आती है।
४.५५
यथा चोक्तं वित्तं सदा यस्य समं
विभक्तं गूढश्चरः संनिभृतश्च मन्त्रः ।
नचाप्रियं प्राणिषु यो ब्रवीति
स सागरान्तां पृथिवीं प्रशास्ति ॥
विभक्तं गूढश्चरः संनिभृतश्च मन्त्रः ।
नचाप्रियं प्राणिषु यो ब्रवीति
स सागरान्तां पृथिवीं प्रशास्ति ॥
Summary
AI
He whose wealth is shared fairly, whose spies are secret, whose counsel is well-guarded, and who speaks no unkind words, rules the earth bounded by the oceans.
सारांश
AI
जिसका धन उचित रूप से विभाजित है, जिसके गुप्तचर और परामर्श गोपनीय हैं और जो अप्रिय नहीं बोलता, वह संपूर्ण पृथ्वी पर शासन करता है।
४.५६
सुगुप्तिम् आधाय सुसंहतेन
बलेन वीरो विचरन्न् अरातिम् ।
सन्तापयेद् येन समं सुतप्तस्
तप्तेन सन्धानम् उपैति तप्तः ॥
बलेन वीरो विचरन्न् अरातिम् ।
सन्तापयेद् येन समं सुतप्तस्
तप्तेन सन्धानम् उपैति तप्तः ॥
Summary
AI
Maintaining his defenses and moving with a united force, a hero should harass the enemy. Once the enemy is distressed, he will seek a settlement, just as hot iron joins with hot iron.
सारांश
AI
एक वीर को अपनी रक्षा करते हुए शत्रु को तब तक संतप्त करना चाहिए जब तक वह संधि हेतु विवश न हो, क्योंकि तप्त ही तप्त से जुड़ता है।
राज्ञा एवम् अस्त्व् इति निगद्य विचित्रनामा बकः सुगुप्तलेखं दत्त्वा सिंहलद्वीपं प्रहितः । अथ प्रणिधिः पुनरागत्योवाच्देव ! श्रूयतां तावत् तत्रत्यप्रस्तावः । एवं तत्र गृध्रेणोक्तम्देव ! मेघवर्णस्तत्र चिरम् उषितः । स वेत्ति किं सन्धेयगुणयुक्तो हिरण्यगर्भो राजा, न वा इति । ततोसौ मेघवर्णश्चित्रवर्णेन राज्ञा समाहूय पृष्टःवायस ! कीदृशो हिरण्यगर्भो राजा चक्रवाको मन्त्री वा कीदृशः वायस उवाच्देव ! स हिरण्यगर्भो राजा युधिष्ठिरसमो महाशयः सत्यवाक् । चक्रवाकसमो मन्त्री न क्वाप्यवलोक्यते । राजाह्यद्य् एवं तदा कथम् असौ त्वया वञ्चितः विहस्य मेघवर्णः प्राह्देव !
४.५७
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता ।
अङ्कम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥
अङ्कम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥
Summary
AI
What cleverness is there in deceiving those who trust you? What true manliness is shown in killing a creature that has fallen asleep in your lap?
सारांश
AI
विश्वास करने वाले को धोखा देना चतुरता नहीं है। अपनी गोद में सोए हुए व्यक्ति की हत्या करने में कोई पुरुषार्थ या वीरता नहीं होती।
४.५८
आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् ।
स तथा वञ्च्यते धूर्तैर्ब्राह्मणाश्छागतो यथा ॥
स तथा वञ्च्यते धूर्तैर्ब्राह्मणाश्छागतो यथा ॥
Summary
AI
One who judges a villain by his own standards and considers him truthful is easily deceived by rogues, just as the *Brāhmaṇa* was tricked regarding the goat.
सारांश
AI
जो व्यक्ति दुर्जन को अपने समान ही सत्यवादी समझकर उस पर भरोसा करता है, वह धूर्तों द्वारा वैसे ही ठगा जाता है जैसे ब्राह्मण को ठगा गया था।
अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद् ब्राह्मणः । स च यज्ञार्थं ग्रामान्तराच् छागम् उपक्रीय, स्कन्धे नीत्वा, गच्छ धूर्तत्रयेणावलोकितः । ततस्ते धूर्ताःयद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मतिप्रकर्षो भवतीति समालोच्य, वृक्षत्रयतले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः । तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणोभिहितःभो ब्राह्मण ! किम् इति त्वया कुक्कुरः स्कन्धेनोह्यते । विप्रेणोक्तंनायं श्वा, किन्तु यज्ञच्छागः । अथान्तरस्थितेनान्येन धूर्तेन तथैवोक्तम् । तद् आकर्ण्य ब्राह्मणश्छागं भूमौ निधाय मुहुर्निरीक्ष्य, पुनः स्कन्धे कृत्वा दोलायमानमतिश्चलितः । यतः
४.५९
मतिर्दोलायते सत्यं सताम् अपि खलोक्तिभिः ।
ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत् ॥
ताभिर्विश्वासितश्चासौ म्रियते चित्रकर्णवत् ॥
Summary
AI
Even the minds of the virtuous waver because of the words of the wicked. Once such a person trusts those lies, he perishes like the camel *Citrakarṇa*.
सारांश
AI
दुष्टों की बातों से सज्जनों की बुद्धि भी विचलित हो सकती है। उन पर विश्वास करने वाला व्यक्ति चित्रकर्ण के समान मारा जाता है।
राजाहकथम् एतत् स कथयति अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास्त्रयः काको व्याघ्रो जम्बुकश्च । अथ तैर्भ्रमद्भिः सार्थभ्रष्टः कश्चिद् उष्ट्रो दृष्टः । पृष्टश्च्कुतो भवान् आगतः सार्थाद् भ्रष्टः स चात्मवृत्तान्तम् अकथयत् । ततस्तैर्नीत्वा सिंहायासौ समर्पितः । तेन चाभयवाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः । अथ कदाचित् सिंहस्य शरीरवैकल्याद् भूरिवृष्टिकारणाच् चाहारम् अलभमानास्ते व्यग्रा बभूवुः । ततस्तैरालोचितम् । चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किम् अनेन कण्टकभुजास्माकम् व्याघ्र उवाच्स्वामिनाभयवाचं दत्त्वानुगृहीतोयं, तत् कथम् एवं सम्भवति
४.६०
त्यजेत् क्षुधार्ता महिला स्वपुत्रं
खादेत् क्षुधार्ता भुजगी स्वमण्डम् ।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति ॥
खादेत् क्षुधार्ता भुजगी स्वमण्डम् ।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति ॥
Summary
AI
A starving mother may abandon her son, and a hungry serpent may eat her own egg. What sin will the famished not commit? The destitute eventually become pitiless.
सारांश
AI
भूख से व्याकुल होने पर स्त्री अपने पुत्र को त्याग सकती है और सर्पिणी अपने अंडे खा सकती है। क्षीण और भूखा मनुष्य अत्यंत क्रूर हो जाता है।
४.६१
मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ।
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित् ॥
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित् ॥
Summary
AI
One who is intoxicated, heedless, insane, exhausted, angry, hungry, greedy, fearful, in a hurry, or lustful does not know righteousness (dharma).
सारांश
AI
मदहोश, लापरवाह, पागल, थका हुआ, क्रोधित, भूखा, लोभी, डरा हुआ, जल्दबाज़ और कामुक व्यक्ति धर्म का मार्ग नहीं जानता।
इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः । सिंहेनोक्तमाहारार्थं किञ्चित् प्राप्तम् तैरुक्तम्देव ! यत्नाद् अपि प्राप्तं किञ्चित् सिंहेनोक्तंकोधुना जीवनोपायः काको वदतिदेव ! स्वाधीनाहारपरित्यागात् सर्वनाशोयम् उपस्थितः सिंहेनोक्तम्त्राहारः कः स्वाधीनः काकः कर्णे कथयतिचित्रकर्ण इति । सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच् चभयवाचं दत्त्वा धृतोयम् अस्माभिः । तत् कथम् एवं सम्भवति तथा हि
४.६२
न भूतदानं न सुवर्णदानं
न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं
सर्वेषु दानेष्व् अभयप्रदानम् ॥
न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं
सर्वेषु दानेष्व् अभयप्रदानम् ॥
Summary
AI
Offering protection from fear (abhaya-pradānam) is declared the greatest gift among all charities. Neither the gift of living beings, gold, cows, nor food equals it.
सारांश
AI
प्राणियों का दान, स्वर्ण, गौ या अन्न का दान—इनमें से कोई भी उतना बड़ा नहीं है जितना कि अभय दान; सभी दानों में अभय दान ही महादान है।
४.६३
सर्वकामसमृद्धस्य अश्वमेधस्य यत् फलम् ।
तत्फलं लभते सम्यग् रक्षिते शरणागते ॥
तत्फलं लभते सम्यग् रक्षिते शरणागते ॥
Summary
AI
A person attains the same fruit as that of performing an aśvamedha sacrifice, which fulfills all desires, by properly protecting one who has sought refuge.
सारांश
AI
सभी कामनाओं को पूर्ण करने वाले अश्वमेध यज्ञ से जो फल मिलता है, वही फल शरणागत की विधिवत रक्षा करने से प्राप्त होता है।
काको ब्रूतेनासौ स्वामिना व्यापादयितव्यः । किन्त्व् अस्माभिरेव तथा कर्तव्यं, यथासौ स्वदेहदानम् अङ्गीकरोति । सिंहस्तच् छ्रुत्वा तूष्णीं स्थितः । ततोसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । अथ काकेनोक्तंदेव ! यत्नाद् अप्याहारो न प्राप्तः । अनेकोपवासक्लिष्टश्च स्वामी । तद् इदानीं मदीयमांसम् उपभुज्यताम् । यतः
४.६४
स्वामिमूला भवन्त्य् एव सर्वाः प्रकृतयः खलु ।
समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥
समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥
Summary
AI
Indeed, all subjects and elements of state are rooted in the master. Just as human effort is fruitful only when trees have their roots intact, stability depends on the leader.
सारांश
AI
राज्य की समस्त प्रकृतियाँ या अंग स्वामी पर ही निर्भर होते हैं। जैसे जड़ों वाले वृक्षों पर ही मनुष्यों का प्रयास सफल होता है, वैसे ही स्वामी के होने पर ही सब संभव है।
सिंहेनोक्तंभद्र ! वरं प्राणपरित्यागो, न पुनरीदृशे कर्मणि प्रवृत्तिः । जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तंमैवम् । अथ व्याघ्रेणोक्तंमद्देहेन जीवतु स्वामी । सिंहेनोक्तंन कदाचिद् एवम् उचितम् । अथ चित्रकर्णोपि जातविश्वासस्तथैवात्मदेहदानम् आह्ततस्तद्वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर्भक्षितश्च । अतोहं ब्रवीमिमतिर्दोलायते सत्यम् इत्य् आदि । ततस्तृतीयधूर्तवचनं श्रुत्वा, स्वमतिभ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश्च तैर्धूर्तैर्नीत्वा भक्षितः । अतोहं ब्रवीमिात्मौपम्येन यो वेत्तीत्य् आदि । राजाह्मेघवर्ण ! कथं शत्रुमध्ये त्वया सुचिरम् उषितम् कथं वा तेषाम् अनुनयः कृतः मेघवर्ण उवाच्देव ! स्वामिकार्यार्थितया स्वप्रयोजनवशाद् वा किं किं न क्रियते पश्य्
४.६५
लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् ।
क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदीवेला निकृन्तति ॥
क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदीवेला निकृन्तति ॥
Summary
AI
O King, do people not carry firewood on their heads to burn it? Similarly, the river’s tide washes the roots of a tree even as it works to uproot it.
सारांश
AI
हे राजन्! क्या लोग जलाने के लिए सिर पर लकड़ी नहीं ढोते? जैसे नदी की लहरें वृक्ष की जड़ें धोती तो हैं पर अंततः उसे काट देती हैं, वैसे ही शत्रु का व्यवहार हो सकता है।
४.६६
स्कन्धेनापि वहेच् छत्रून् कार्यम् आसाद्य बुद्धिमान् ।
यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥
यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥
Summary
AI
A wise person should carry even enemies on their shoulders to achieve a purpose, just as the aged serpent carried and eventually destroyed the frogs.
सारांश
AI
बुद्धिमान व्यक्ति को कार्य सिद्धि के लिए शत्रुओं को भी कंधे पर ढोना चाहिए, ठीक उसी तरह जैसे एक वृद्ध सर्प ने मेंढकों को ढोकर उन्हें मार डाला था।
राजाह्कथम् एतत् मेघवर्णः कथयति अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः । सोतिजीर्णतया स्वाहारम् अप्यन्वेष्टुम् अक्षमः सरस्तीरे पतित्वा स्थितः । ततो दूराद् एव केनचिन्मण्डूकेन दृष्टः, पृष्टश्च्किम् इति त्वाम् आहारं नान्विष्यति सर्पोवदत्गच्छ भद्र ! किं ते मम मन्दभाग्यस्य वृत्तान्तप्रश्नेन ततः सञ्जातकौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह । सर्पोप्याह्भद्र ! पुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशतिवर्षदेशीयः सर्वगुणसम्पन्नो दुर्दैवान्मया नृशंसेन दष्टः । ततस्तं सुशीलनामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः । तथा चोक्तम्
४.६७
उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्रविप्लवे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥
Summary
AI
He who stands by one during festivals, calamities, war, famine, political upheaval, at the royal court, and at the cemetery is a true kinsman (bāndhavaḥ).
सारांश
AI
जो व्यक्ति उत्सव, संकट, युद्ध, अकाल, राज्य के विद्रोह, राजद्वार और श्मशान में साथ रहता है, वही वास्तव में सच्चा बंधु है।
४.६८
क्रोडीकरोति प्रथमं यदा जातम् अनित्यता ।
धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥
धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥
Summary
AI
Since impermanence embraces a living being first like a nurse, and the mother comes only later, what sequence is there for grief?
सारांश
AI
जन्म लेते ही अनित्यता प्राणी को धाय की तरह पहले गोद में ले लेती है और माता बाद में; ऐसी स्थिति में शोक करने का कोई तुक नहीं है।
४.६९
क्व गताः पृथिवीपालाः ससैन्यबलवाहनाः ।
वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति ॥
वियोगसाक्षिणी येषां भूमिरद्यापि तिष्ठति ॥
Summary
AI
Where have the kings gone along with their armies, power, and vehicles? The earth, which bears witness to their separation, remains even today.
सारांश
AI
वे शक्तिशाली राजा अपनी सेनाओं और वाहनों के साथ कहाँ चले गए? आज भी यह पृथ्वी उनके वियोग की साक्षी बनकर टिकी हुई है।
४.७०
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥
अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥
Summary
AI
For one who is born, death is certain, and for one who is dead, birth is certain. Whether today or after a hundred years, death is inevitable for all living beings.
सारांश
AI
जन्म लेने वाले की मृत्यु और मरने वाले का जन्म निश्चित है। चाहे आज हो या सौ वर्ष बाद, सभी प्राणियों की मृत्यु अटल है।
४.७१
कायः संनिहितापायः सम्पदः पदम् आपदाम् ।
समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥
समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥
Summary
AI
The body is subject to constant decay, wealth is the abode of calamities, unions end in separations, and everything that is produced is fragile.
सारांश
AI
यह शरीर विनाशशील है, धन-सम्पदा विपत्तियों का घर है और मिलन वियोग के साथ जुड़ा है; संसार में जो कुछ भी उत्पन्न होता है, वह नश्वर है।
४.७२
प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते ।
आमकुम्भ इवाम्भःस्थो विशीर्णः सन् विभाष्यते ॥
आमकुम्भ इवाम्भःस्थो विशीर्णः सन् विभाष्यते ॥
Summary
AI
Like an unbaked clay pot kept in water, this body wastes away every moment without being noticed; it is only recognized as having perished once it has fully dissolved.
सारांश
AI
जल में रखे कच्चे घड़े की तरह यह शरीर हर पल नष्ट हो रहा है, जिसका आभास नहीं होता; इसके पूरी तरह बिखर जाने पर ही इसके नाश का पता चलता है।
४.७३
आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने ।
आघातं नीयमानस्य वध्यस्येव पदे पदे ॥
आघातं नीयमानस्य वध्यस्येव पदे पदे ॥
Summary
AI
Day by day, death draws closer to a living being, just as every step brings a condemned victim closer to the place of execution.
सारांश
AI
वध के लिए ले जाए जा रहे अपराधी के हर कदम की भाँति, प्रत्येक प्राणी के लिए मृत्यु दिन-प्रतिदिन और निकट आती जा रही है।
४.७४
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ।
ऐश्वर्यं प्रियसंवासो मुह्येत् तत्र न पण्डितः ॥
ऐश्वर्यं प्रियसंवासो मुह्येत् तत्र न पण्डितः ॥
Summary
AI
Youth, beauty, life, wealth, power, and the company of loved ones are all transitory. A wise person (paṇḍita) should not be deluded by them.
सारांश
AI
यौवन, रूप, जीवन, धन-सम्पत्ति, ऐश्वर्य और प्रियजनों का साथ—ये सब अनित्य हैं। विद्वान व्यक्ति को इनके मोह में नहीं पड़ना चाहिए।
४.७५
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥
समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥
Summary
AI
Just as two pieces of wood may meet in the great ocean and, after meeting, drift apart, so is the gathering of living beings.
सारांश
AI
जिस प्रकार विशाल समुद्र में लकड़ी के दो टुकड़े मिलते हैं और फिर अलग हो जाते हैं, उसी प्रकार संसार में प्राणियों का मिलन और बिछड़ना होता है।
४.७६
यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति ।
विश्रम्य च पुनर्गच्छेद् तद्वद् भूतसमागमः ॥
विश्रम्य च पुनर्गच्छेद् तद्वद् भूतसमागमः ॥
Summary
AI
Just as a traveler rests in the shade and then moves on after being refreshed, so too is the union of living beings temporary.
सारांश
AI
जैसे कोई यात्री छाया का सहारा लेकर थोड़ी देर विश्राम करता है और फिर आगे निकल जाता है, वैसे ही प्राणियों का साथ भी क्षणिक होता है।
४.७७
पञ्चभिर्निर्मिते देहे पञ्चत्वं च पुनर्गते ।
स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ॥
स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ॥
Summary
AI
When the body, formed of five elements, returns to the state of fivefold dissolution and each element reverts to its own source, what cause is there for lamentation?
सारांश
AI
पाँच तत्वों से निर्मित यह शरीर जब पुनः उन्हीं तत्वों में मिलकर अपने मूल को प्राप्त हो जाता है, तब उस पर शोक करना व्यर्थ है।
४.७८
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ।
तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥
तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥
Summary
AI
As many dear relationships as a living being forms in their mind, that many spikes of sorrow are driven into their heart.
सारांश
AI
मनुष्य जितने अधिक प्रिय सांसारिक संबंध बनाता है, उसके हृदय में उतने ही अधिक शोक के कांटे गाड़ दिए जाते हैं।
४.७९
नायम् अत्यन्तसंवासो लभ्यते येन केनचित् ।
अपि स्वेन शरीरेण किम् उतान्येन केनचित् ॥
अपि स्वेन शरीरेण किम् उतान्येन केनचित् ॥
Summary
AI
No one can attain an eternal union even with their own body, let alone with anyone or anything else.
सारांश
AI
किसी के साथ भी सदैव का साथ संभव नहीं है। जब व्यक्ति का अपने स्वयं के शरीर के साथ ही साथ स्थायी नहीं है, तो दूसरों की क्या बात?
४.८०
संयोगो हि वियोगस्य संसूचयति सम्भवम् ।
अनतिक्रमणीयस्य जन्म मृत्योरिवागमम् ॥
अनतिक्रमणीयस्य जन्म मृत्योरिवागमम् ॥
Summary
AI
Union indicates the inevitable occurrence of separation, just as birth signals the certain arrival of death.
सारांश
AI
संयोग हमेशा वियोग की संभावना को सूचित करता है, ठीक वैसे ही जैसे जन्म का होना अपरिहार्य मृत्यु के आगमन का संकेत है।
४.८१
आपातरमणीयानां संयोगानां प्रियैः सह ।
अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ॥
अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ॥
Summary
AI
The outcome of associations with beloved ones, though pleasant at first sight, is indeed terrible, just like the result of eating unwholesome foods.
सारांश
AI
प्रियजनों के साथ शुरुआती सुखद मिलन का परिणाम अनुचित भोजन के समान ही अंत में कष्टकारी और भयानक होता है।
४.८२
व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा ।
आयुरादाय मर्त्यानां तथा रात्र्यहनी सदा ॥
आयुरादाय मर्त्यानां तथा रात्र्यहनी सदा ॥
Summary
AI
Just as the currents of rivers flow away and never return, so do days and nights constantly pass away, taking with them the lifespan of mortals.
सारांश
AI
जैसे नदियों की धाराएँ बहकर लौटती नहीं हैं, वैसे ही दिन और रात भी मनुष्यों की आयु लेकर निरंतर बीतते जा रहे हैं।
४.८३
सुखास्वादपरो यस्तु संसारे सत्समागमः ।
स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥
स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥
Summary
AI
In this world, the company of the good, which is dedicated to the enjoyment of happiness, is placed at the forefront of sorrows because it inevitably ends in separation.
सारांश
AI
संसार में सज्जनों का समागम सुखद तो होता है, पर अंत में वियोग होने के कारण वह दुखों की श्रेणी में सबसे ऊपर आता है।
४.८४
अत एव हि नेच्छन्ति साधवः सत्समागमम् ।
यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥
यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥
Summary
AI
For this very reason, the wise do not desire the company of the virtuous; because there is no remedy for a mind that has been cut by the sword of separation from them.
सारांश
AI
सज्जन पुरुष इसी कारण घनिष्ठता नहीं चाहते क्योंकि वियोग की पीड़ा से घायल मन को ठीक करने की कोई औषधि नहीं है।
४.८५
सुकृतान्य् अपि कर्माणि राजभिः सगरादिभिः ।
अथ तान्य् एव कर्माणि ते चापि प्रलयं गताः ॥
अथ तान्य् एव कर्माणि ते चापि प्रलयं गताः ॥
Summary
AI
Even though virtuous deeds were performed by kings such as *Sagara*, both those very deeds and the kings themselves have gone to destruction.
सारांश
AI
सगर जैसे राजाओं द्वारा किए गए महान पुण्य कर्म और वे स्वयं भी समय के साथ विनाश को प्राप्त होकर विलीन हो गए।
४.८६
संचिन्त्य संचिन्त्य तम् उग्रदण्डं
मृत्युं मनुष्यस्य विचक्षणस्य ।
वर्षाम्बुसिक्ता इव चर्मबन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति ॥
मृत्युं मनुष्यस्य विचक्षणस्य ।
वर्षाम्बुसिक्ता इव चर्मबन्धाः
सर्वे प्रयत्नाः शिथिलीभवन्ति ॥
Summary
AI
Repeatedly contemplating that terrible-punishing death, all the efforts of a wise man become slackened, like leather bindings soaked by rainwater.
सारांश
AI
भयानक दंड वाली मृत्यु का बार-बार विचार करने से बुद्धिमान मनुष्य के सभी सांसारिक प्रयास वर्षा में भीगे चमड़े के बंधन के समान ढीले पड़ जाते हैं।
४.८७
याम् एव रात्रिं प्रथमाम् उपैति
गर्भे निवासं नरवीर लोकः ।
ततः प्रभृत्य् अस्खलितप्रयाणः
स प्रत्यहं मृत्युसमीपम् एति ॥
गर्भे निवासं नरवीर लोकः ।
ततः प्रभृत्य् अस्खलितप्रयाणः
स प्रत्यहं मृत्युसमीपम् एति ॥
Summary
AI
O hero among men, from the very first night a person enters the womb, from then onwards, with an unfaltering journey, he approaches death every day.
सारांश
AI
मनुष्य गर्भवास के पहले दिन से ही बिना रुके निरंतर मृत्यु की ओर कदम बढ़ाता रहता है और प्रतिदिन उसके समीप पहुँचता जाता है।
४.८८
अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् ।
शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ॥
शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ॥
Summary
AI
If separation were the cause of grief, then ignorance would not be. In that case, as days pass, grief should increase; why then does it fade away?
सारांश
AI
यदि वियोग ही दुख का कारण होता, तो समय के साथ शोक बढ़ना चाहिए था। शोक का कम होना यह सिद्ध करता है कि अज्ञान ही दुख का मूल है।
४.८९
अकाण्डपातजातानाम् अस्त्राणां मर्मभेदिनाम् ।
गाढशोकप्रहाराणाम् अचिन्तैव महौषधम् ॥
गाढशोकप्रहाराणाम् अचिन्तैव महौषधम् ॥
Summary
AI
For the arrows of deep strokes of grief, which arise from sudden calamities and pierce the vitals, the only great medicine is not thinking about them.
सारांश
AI
अचानक हृदय पर चोट करने वाले तीव्र शोक के प्रहारों के लिए उन पर विचार न करना ही सबसे बड़ी औषधि है।
४.९०
वनेपि दोषाः प्रभवन्ति रागिणां
गृहेपि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते
त्रिवृत्तरागस्य गृहं तपोवनम् ॥
गृहेपि पञ्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते
त्रिवृत्तरागस्य गृहं तपोवनम् ॥
Summary
AI
For the passionate, faults arise even in a forest, while for one in a house, restraint of the five senses is penance. For one who engages in blameless action and has turned away from passion, his very home is a penance forest.
सारांश
AI
आसक्त मनुष्य को वन में भी दोष सताते हैं, जबकि घर में इंद्रियों को वश में रखना ही तप है। निष्काम कर्म करने वाले के लिए घर ही तपोवन है।
४.९१
दुःखितोपि चरेद् धर्मं यत्र कुत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥
Summary
AI
Even if suffering, one should practice *dharma* while living in any stage of life. One should be equal toward all beings, for external signs are not the cause of *dharma*.
सारांश
AI
किसी भी आश्रम में रहकर धर्म का आचरण करना चाहिए। सभी प्राणियों के प्रति समभाव रखना ही वास्तविक धर्म है, केवल बाहरी वेष धारण करना नहीं।
४.९२
वृत्त्यर्थं भोजनं येषां सन्तानार्थं च मैथुनम् ।
वाक् सत्यवचनार्थाय दुर्गाण्य् अपि तरन्ति ते ॥
वाक् सत्यवचनार्थाय दुर्गाण्य् अपि तरन्ति ते ॥
Summary
AI
Those for whom food is for sustenance, sexual union for progeny, and speech for telling the truth, cross over even the most difficult obstacles.
सारांश
AI
जो केवल जीवन के लिए भोजन, संतान के लिए मैथुन और सत्य के लिए वाणी का प्रयोग करते हैं, वे जीवन की कठिन बाधाओं को पार कर लेते हैं।
४.९३
तथा हि आत्मा नदी संयम् अपुण्यतीर्था
सत्योदका शीलतटा दयोर्मिः ।
तत्राभिषेकं कुरु पाण्डुपुत्र
न वारिणा शुष्यति चान्तरात्मा ॥
सत्योदका शीलतटा दयोर्मिः ।
तत्राभिषेकं कुरु पाण्डुपुत्र
न वारिणा शुष्यति चान्तरात्मा ॥
Summary
AI
O son of *Pāṇḍu*, the self is a river whose holy bathing place is self-restraint, whose water is truth, whose banks are good character, and whose waves are compassion. Perform your ablution there, for the inner self is not purified by water.
सारांश
AI
आत्मा एक नदी है जिसमें संयम तीर्थ, सत्य जल, शील तट और दया लहरें हैं। हे पांडुपुत्र, वहाँ स्नान करो क्योंकि बाहरी जल से अंतरात्मा शुद्ध नहीं होती।
४.९४
जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् ।
संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ॥
संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ॥
Summary
AI
Happiness belongs to the one who abandons this manifested, worthless worldly existence, which is afflicted by the pains of birth, death, old age, and disease.
सारांश
AI
जन्म, मृत्यु, बुढ़ापा और व्याधियों से ग्रस्त इस सारहीन संसार का मोह त्याग देने में ही वास्तविक सुख निहित है।
४.९५
दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते ।
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥
Summary
AI
There is only sorrow and no happiness, though it may seem so. The term 'happiness' is merely applied to the remedy used by one afflicted by sorrow.
सारांश
AI
वास्तव में संसार में केवल दुख ही विद्यमान है। दुख की निवृत्ति या उसके उपचार को ही भ्रमवश सुख का नाम दे दिया जाता है।
४.९६
सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते ।
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥
Summary
AI
Attachment should be abandoned by all means; if it cannot be abandoned, then it should be formed with the good, for the company of the virtuous is indeed the medicine.
सारांश
AI
आसक्ति का पूर्ण त्याग करना चाहिए। यदि यह संभव न हो, तो केवल सज्जनों का साथ करना चाहिए क्योंकि सत्संगति ही दोषों की औषधि है।
४.९७
कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते ।
स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥
स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥
Summary
AI
Desire should be abandoned by all means; if it cannot be controlled, then it should be directed toward one's own wife, for she alone is the remedy for it.
सारांश
AI
कामनाओं का सर्वथा त्याग करना चाहिए। यदि पूर्ण त्याग न हो सके, तो उसे केवल अपनी पत्नी तक सीमित रखना चाहिए, यही उसका उपचार है।
एतच् छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान् । अतो ब्राह्मणशापान्मण्डूकान् वोढुम् अत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य जालपादनाम्नोग्रे तत् कथितम् । ततोसाव् आगत्य मण्डूकनाथस्तस्य सर्पस्य पृष्ठम् आरूढवान् । स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम । परेद्युश्चलितुम् असमर्थं तं मण्डूकनाथम् अवदत्किम् अद्य भवान्मन्दगतिः सर्पो ब्रूतेदेव ! आहारविरहाद् असमर्थोस्मि । मण्डूकनाथोवदत्स्माद् आज्ञया मण्डूकान् भक्षय । ततः गृहीतोयं महाप्रसाद इत्य् उक्त्वा क्रमशो मण्डूकान् खादितवान् । अथ निर्मण्डूकं सरो विलोक्य मण्डूकनाथोपि तेन खादितः । अतोहं ब्रवीमिस्कन्धेनापि वहेच् छत्रून् इत्य् आदि । देव ! यात्व् इदानीं पुरावृत्ताख्यानकथनं सर्वथा सन्धेयोयं हिरण्यगर्भराजा सन्धीयताम् इति मे मतिः । राजोवाच्कोयं भवतो विचारः यतो जितस्तावद् अयम् अस्माभिः । ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम् । नो चेद् विगृह्यताम् । अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तंदेव ! सिंहलद्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपम् आक्रम्यावतिष्ठते । राजा ससम्भ्रमं ब्रूतेकिं किम् शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतम् उवाच्साधु रे चक्रवाक मन्त्रिन् ! साधु ! राजा सकोपम् आहास्तां तावद् अयं गत्वा तम् एव समूलम् उन्मूलयामि । दूरदर्शी विहस्याह्
४.९८
न शरन्मेघवत् कार्यं वृथैव घनगर्जितम् ।
परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ॥
परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ॥
Summary
AI
One should not make a loud roar in vain like an autumn cloud. A great person does not reveal whether they intend benefit or harm to another.
सारांश
AI
शरद ऋतु के बादलों की तरह व्यर्थ गर्जना नहीं करनी चाहिए। महान पुरुष किसी का हित या अहित करने से पहले उसे सार्वजनिक नहीं करते।
४.९९
एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः ।
सदर्पोप्य् उरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ॥
सदर्पोप्य् उरगः कीटैर्बहुभिर्नाश्यते ध्रुवम् ॥
Summary
AI
A king should not simultaneously fight many opponents. Even a proud serpent is certainly destroyed by many insects.
सारांश
AI
एक राजा को एक साथ कई शत्रुओं से बैर नहीं मोल लेना चाहिए। जैसे बहुत से छोटे कीड़े मिलकर एक अभिमानी सर्प को भी मार डालते हैं।
४.१००
योर्थतत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः ।
स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥
स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥
Summary
AI
One who, without knowing the truth of a matter, falls under the sway of anger, that fool suffers just as the *Brāhmaṇa* suffered on account of the mongoose.
सारांश
AI
जो मूर्ख सत्य को जाने बिना क्रोध के वश में होकर कार्य करता है, वह उसी प्रकार पछताता है जैसे नेवले को मारने वाला ब्राह्मण पछताया था।
अस्त्य् उज्जयिन्यां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता । अथ ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुम् आह्वानम् आगतम् । तच् छ्रुत्वा ब्राह्मणोपि सहजदारिद्र्याद् अचिन्तयत्यदि सत्वरं न गच्छामि, तदान्या कश्चिच् छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः
४.१०१
आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्रसम् ॥
क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्रसम् ॥
Summary
AI
For things that should be taken, given, or actions to be performed, if they are not executed swiftly, time consumes their essence.
सारांश
AI
लेने, देने और करने योग्य कार्यों को यदि शीघ्रता से न किया जाए, तो समय उनके फल के रस को पी जाता है अर्थात् उनका महत्व समाप्त कर देता है।
किन्तु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि यातु, चिरकालपालितम् इमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस्तेन नकुलेन बालकसमीपम् आगच्छन् कृष्णसर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश्च । ततोसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्तविलिप्तमुखपदः सत्वरम् उपगम्य तच्चरणयोर्लुलोठ । ततः स विप्रस्तथाविधं दृष्ट्वा मम बालकोनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस्तावद् बालकः सुस्थः स्वपिति सर्पश्च व्यापादितस्तिष्ठति । ततस्तम् उपकारकं नकुलं निरीक्ष्य, भावितचेताः स ब्राह्मणः परं विषादम् अगमत् । अतोहं ब्रवीमियोर्थतत्त्वम् अविज्ञाय इत्य् आदि । अपरं च
४.१०२
कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा ।
षड्वर्गम् उत्सृजेद् एनं तस्मिंस्त्यक्ते सुखी नृपः ॥
षड्वर्गम् उत्सृजेद् एनं तस्मिंस्त्यक्ते सुखी नृपः ॥
Summary
AI
A king should abandon the group of six internal enemies: desire (Kāma), anger (Krodha), greed (Lobha), joy (Harṣa), pride (Māna), and intoxication (Mada). By renouncing these, a king becomes happy.
सारांश
AI
काम, क्रोध, लोभ, हर्ष, मान और मद—इन छह शत्रुओं के समूह को त्याग देने वाला राजा ही वास्तविक सुख प्राप्त करता है।
४.१०३
स्मृतिस्तत्परतार्थेषु वितर्को ज्ञाननिश्चयः ।
दृढता मन्त्रगुप्तिश्च मन्त्रिणः परमो गुणः ॥
दृढता मन्त्रगुप्तिश्च मन्त्रिणः परमो गुणः ॥
Summary
AI
Memory, dedication to objectives, deliberation, certain knowledge, firmness, and secrecy of counsel are the supreme qualities of a minister.
सारांश
AI
स्मरण शक्ति, कार्य के प्रति तत्परता, तर्क करने की क्षमता, ज्ञान का निश्चय, मानसिक दृढ़ता और गोपनीयता बनाए रखना एक मंत्री के सर्वोत्तम गुण हैं।
४.१०४
तथा च् सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । वृणुते हि विमृश्य कारिणं गुणलुब्धाः स्वयम् एव सम्पदः ॥
Summary
AI
One should not perform an action impulsively. Lack of discernment is the seat of great calamities. Prosperity, being fond of virtues, chooses a person who acts with deliberation on its own.
सारांश
AI
बिना सोचे-समझे अचानक कोई कार्य नहीं करना चाहिए क्योंकि अविवेक संकटों का घर है। सोच-विचार कर कार्य करने वाले व्यक्ति के गुणों पर मोहित होकर संपत्तियां स्वयं उसका चुनाव करती हैं।
४.१०५
यद्यप्य् उपायाश्चत्वारो निर्दिष्टाः सध्यसाधने ।
सङ्ख्यामात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥
सङ्ख्यामात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥
Summary
AI
Even though four means (Sāma, Dāna, Bheda, and Daṇḍa) are prescribed for achieving an end, the others are merely nominal in their result; success is firmly established in conciliation (Sāma).
सारांश
AI
यद्यपि सिद्धि प्राप्त करने के चार उपाय बताए गए हैं, किंतु उनकी सफलता का मुख्य आधार 'साम' (शांतिपूर्ण समझौता) की नीति में ही स्थित है।
४.१०६
मृद्घटवत् सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥
सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥
Summary
AI
A wicked person is like an earthen pot, easily broken and difficult to rejoin. A virtuous person, however, is like a golden pot, difficult to break and easy to repair quickly.
सारांश
AI
दुष्ट व्यक्ति मिट्टी के घड़े के समान होता है जिसे तोड़ना आसान है पर जोड़ना कठिन; जबकि सज्जन सोने के घड़े के समान होते हैं जिन्हें तोड़ना कठिन है पर आसानी से जोड़ा जा सकता है।
४.१०७
अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥
Summary
AI
An ignorant person is easily satisfied, and a specialist is even more easily satisfied. However, even Brahmā cannot please a man who is conceited with a small fragment of knowledge.
सारांश
AI
अज्ञानी को समझाना आसान है और विद्वान को और भी सरल, परंतु अल्प ज्ञान के अहंकार में चूर व्यक्ति को साक्षात् ब्रह्मा भी संतुष्ट नहीं कर सकते।
४.१०८
कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।
तस्मात् परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥
तस्मात् परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥
Summary
AI
Everywhere, the qualities and behaviors of others that are not directly visible must be inferred from their actions. Therefore, one should judge the conduct of those whose actions are hidden by the results of their deeds.
सारांश
AI
मनुष्य के गुप्त गुणों और स्वभाव का अनुमान उसके कर्मों से लगाया जाना चाहिए। इसलिए प्रत्यक्ष न दिखने वाले आचरण को कार्यों के परिणामों से समझना चाहिए।
राजाहलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम् । एतन्मन्त्रयित्वा गृध्रो महामन्त्रीतत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यन्तरं चलितः । ततः प्रणिधिबकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितंदेव ! सन्धिकर्तुं महामन्त्री गृध्रोस्मत्समीपम् आगच्छति । राजहंसो ब्रूतेमन्त्रिन् ! पुनरभिसन्धिना केनचिद् अत्रागमनम् । सर्वज्ञो विहस्याह्देव ! न शङ्कास्पदम् एतत् । यतोसौ महाशयो दूरदर्शी । अथवा स्थितिरियं मन्दमतीनां, कदाचिच् छङ्कैव न क्रियते, कदाचित् सर्वत्र शङ्का ।
४.१०९
तथा हि सरसि बहुशस्ताराच्छायेक्षणात् परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहुकचकितो लोकः सत्येप्यपायम् अपेक्षते ॥
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहुकचकितो लोकः सत्येप्यपायम् अपेक्षते ॥
Summary
AI
A swan, deceived by seeing the reflection of stars in a lake at night and mistaking them for lily stalks, does not bite even a white lotus during the day, fearing it might be a star. A person startled by a trick suspects danger even in truth.
सारांश
AI
रात में तारों की परछाईं को कमल समझकर छला गया हंस दिन में असली कमल को भी नहीं छूता। एक बार धोखे से डरा हुआ व्यक्ति सत्य होने पर भी अनिष्ट की आशंका करता है।
४.११०
दुर्जनदूषितमनसः सुजनेष्व् अपि नास्ति विश्वासः ।
बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥
बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥
Summary
AI
One whose mind is corrupted by the wicked lacks trust even in the virtuous. A child burnt by hot milk-porridge blows even on cold curd before eating it.
सारांश
AI
दुर्जन के प्रभाव से जिसका मन दूषित हो गया हो, उसे सज्जन पर भी विश्वास नहीं होता। खीर से जला हुआ बालक दही को भी फूंक-फूंक कर खाता है।
तद् देव ! यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्गद्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राजदर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच्मन्त्रिन् ! युष्मद्आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् राजहंसो ब्रूते एवम् एव । दूरदर्शी कथयति एवम् एवैतत् । किन्त्व् इदानीं बहुप्रपञ्चवचनं निष्पर्योजनम् । यतः
४.१११
लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलिकर्मणा ।
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥
Summary
AI
One should win over a greedy person with wealth, an arrogant person with a salutation, a fool by following his whims, and a wise person (Paṇḍita) by the truth.
सारांश
AI
लोभी को धन से, अहंकारी को सम्मान (हाथ जोड़कर), मूर्ख को उसकी इच्छा के अनुसार चलकर और विद्वान को वास्तविकता व सत्य के द्वारा वश में करना चाहिए।
४.११२
सद्भावेन हरेन् मित्रं सम्भ्रमेण तु बान्धवान् ।
स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतरान् जनान् ॥
स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतरान् जनान् ॥
Summary
AI
One should win over a friend with sincerity, kinsmen with respect, a wife and servants with gifts and honor, and other people with courtesy.
सारांश
AI
मित्र को सद्भाव से, बंधुओं को आदर-सत्कार से, स्त्री और सेवकों को दान व सम्मान से तथा अन्य लोगों को शिष्टता से जीतना चाहिए।
४.११३
बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः ।
आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः कालयापनम् ॥
आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः कालयापनम् ॥
Summary
AI
A king attacked by a stronger foe and having no other remedy should seek a treaty while biding his time.
सारांश
AI
जब बलवान शत्रु आक्रमण करे और कोई अन्य उपाय न हो, तो राजा को समय बिताने के लिए संधि का प्रयास करना चाहिए।
४.११४
कपाल उपहारश्च सन्तानः संगतस्तथा ।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥
Summary
AI
The types of treaties are Kapāla, Upahāra, Santāna, Saṅgata, Upanyāsa, Pratīkāra, Saṃyoga, and Puruṣāntara.
सारांश
AI
कपाल, उपहार, संतान, संगत, उपन्यास, प्रतिकार, संयोग और पुरुषान्तर संधियों के विभिन्न भेद हैं।
४.११५
अदृष्टनर आदिष्ट आत्मामिष उपग्रहः ।
परिक्रयस्तथोच्छिन्नस्तथा च परदूषणः ॥
परिक्रयस्तथोच्छिन्नस्तथा च परदूषणः ॥
Summary
AI
(Continuing the list of alliances) These include the Adṛṣṭanara, Ādiṣṭa, Ātmāmiṣa, Upagraha, Parikraya, Ucchinna, and Paridūṣaṇa treaties.
सारांश
AI
अदृष्टनर, आदिष्ट, आत्मामिष, उपग्रह, परिक्रय, उच्छिन्न और परदूषण संधियों के अन्य रूप हैं।
४.११६
स्कन्धोपनेयः सन्धिश्च षोडशः परकीर्तितः ।
इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥
इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥
Summary
AI
The sixteenth treaty is called Skandhopaneya. Thus, those expert in treaties have described these sixteen types of alliances.
सारांश
AI
सोलहवाँ प्रकार 'स्कन्धोपनेय' संधि है। संधि के विशेषज्ञों ने ये कुल सोलह प्रकार की संधियाँ बताई हैं।
४.११७
कपालसन्धिर्विज्ञेयः केवलं समसन्धिकः ।
सम्प्रदानाद् भवति य उपहारः स उच्यते ॥
सम्प्रदानाद् भवति य उपहारः स उच्यते ॥
Summary
AI
The Kapāla treaty is understood as a simple alliance between equals. An alliance formed through the offering of gifts is called an Upahāra treaty.
सारांश
AI
समान पक्षकारों के बीच होने वाली संधि 'कपाल' कहलाती है और कुछ धन या उपहार देकर की गई संधि 'उपहार' कही जाती है।
४.११८
सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्वकः ।
सद्भिस्तु सङ्गतः सन्धिर्मैत्रीपूर्व उदाहृतः ॥
सद्भिस्तु सङ्गतः सन्धिर्मैत्रीपूर्व उदाहृतः ॥
Summary
AI
The Santāna treaty is known to be preceded by the giving of a daughter in marriage. A Saṅgata treaty is described by the virtuous as being based on friendship.
सारांश
AI
कन्यादान के माध्यम से की गई संधि 'संतान' कहलाती है और सज्जनों के बीच जो मैत्रीपूर्ण संधि होती है उसे 'संगत' कहते हैं।
४.११९
यावद् आयुःप्रमाणस्तु समानार्थप्रयोजनः ।
सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते ॥
सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते ॥
Summary
AI
(Referring to the Saṅgata alliance) It lasts as long as life, shares the same goals and objectives, and is not broken by any cause in prosperity or adversity.
सारांश
AI
जो संधि जीवनपर्यंत चले, समान उद्देश्य वाली हो और सुख या विपत्ति में भी न टूटे, वह अत्यंत श्रेष्ठ मानी जाती है।
४.१२०
सङ्गतः सन्धिरेवायं प्रकृष्टत्वात् सुवर्णवत् ।
तथान्यैः सन्धिकुशलैः काञ्चनः समुदाहृतः ॥
तथान्यैः सन्धिकुशलैः काञ्चनः समुदाहृतः ॥
Summary
AI
This Saṅgata treaty, due to its excellence, is like gold. Therefore, other experts in treaties call it the Kāñcana (golden) alliance.
सारांश
AI
यह 'संगत' संधि अपनी श्रेष्ठता और स्थिरता के कारण सोने के समान होने से अन्य विद्वानों द्वारा 'कांचन' संधि भी कहलाती है।
४.१२१
आत्मकार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः ।
स उपन्यासकुशलैरुपन्यास उदाहृतः ॥
स उपन्यासकुशलैरुपन्यास उदाहृतः ॥
Summary
AI
That which is undertaken with the specific purpose of achieving one’s own objective is declared as *Upanayāsa* by those skilled in diplomacy.
सारांश
AI
अपने कार्य की सिद्धि के उद्देश्य से जो प्रस्ताव किया जाता है, उसे प्रस्ताव-कला में कुशल लोग 'उपन्यास' कहते हैं।
४.१२२
मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥
Summary
AI
A treaty made with the thought, "I have helped him in the past, and he will likewise help me," is called *Pratīkāra*.
सारांश
AI
'इसने पूर्व में मेरा उपकार किया था, अतः यह मेरा भी उपकार करेगा'—इस विचार से की गई संधि 'प्रतीकार' कहलाती है।
४.१२३
उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति ।
अयं चापि प्रतीकारो रामसुग्रीवयोरिव ॥
अयं चापि प्रतीकारो रामसुग्रीवयोरिव ॥
Summary
AI
The alliance formed on the basis of "I help him and he will help me," much like the one between *Rāma* and *Sugrīva*, is also known as *Pratīkāra*.
सारांश
AI
'मैं इसका उपकार करता हूँ और यह भी मेरा उपकार करेगा'—ऐसी संधि भी 'प्रतीकार' है, जैसे राम और सुग्रीव के बीच हुई थी।
४.१२४
एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः ।
सुसंहितप्रयाणस्तु सन्धिः संयोग उच्यते ॥
सुसंहितप्रयाणस्तु सन्धिः संयोग उच्यते ॥
Summary
AI
When two parties set out together on an expedition with a single objective in mind, that treaty characterized by well-coordinated movement is called *Saṃyoga*.
सारांश
AI
जब दो पक्ष एक ही उद्देश्य की प्राप्ति के लिए साथ मिलकर यात्रा करते हैं, तो उस सुसंगठित मेल को 'संयोग' संधि कहा जाता है।
४.१२५
आवयोर्योधमुख्याभ्यां मदर्थः साध्यताम् इति ।
यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥
यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥
Summary
AI
A treaty in which a condition is set that "my objective be achieved by the two chief warriors of both of us" is termed a *Puruṣāntara* treaty.
सारांश
AI
'हम दोनों के मुख्य योद्धाओं द्वारा मेरा कार्य सिद्ध किया जाए'—ऐसी शर्त वाली संधि को 'पुरुषान्तर' संधि कहते हैं।
४.१२६
त्वयैकेन मदीयोर्थः सम्प्रसाध्यस्त्व् असाव् इति ।
यत्र शत्रुः पणं कुर्यात् सोदृष्टपुरुषः स्मृतः ॥
यत्र शत्रुः पणं कुर्यात् सोदृष्टपुरुषः स्मृतः ॥
Summary
AI
Where the enemy sets the condition that "this objective of mine must be accomplished by you alone," it is known as an *Adṛṣṭapuruṣa* treaty.
सारांश
AI
'तुम अकेले ही मेरे कार्य को सिद्ध करो'—जहाँ शत्रु ऐसी शर्त रखता है, वह 'अदृष्टपुरुष' नामक संधि मानी जाती है।
४.१२७
यत्र भूम्येकदेशेन पणेन रिपुरूर्जितः ।
सन्धीयते सन्धिविद्भिः स चादिष्ट उदाहृतः ॥
सन्धीयते सन्धिविद्भिः स चादिष्ट उदाहृतः ॥
Summary
AI
When a powerful enemy is pacified by a treaty involving the cession of a portion of territory as a condition, experts in diplomacy call it an *Ādiṣṭa* treaty.
सारांश
AI
जहाँ भूमि के एक हिस्से को देकर शक्तिशाली शत्रु के साथ समझौता किया जाता है, उसे संधि के ज्ञाता 'आदिष्ट' संधि कहते हैं।
४.१२८
स्वसैन्येन तु सन्धानम् आत्मादिष्ट उदाहृतः ।
क्रियते प्राणरक्षार्थं सर्वदानाद् उपग्रहः ॥
क्रियते प्राणरक्षार्थं सर्वदानाद् उपग्रहः ॥
Summary
AI
An alliance formed through one's own army is called *Ātmādiṣṭa*. A treaty made by surrendering all one's possessions to save one's life is known as *Upagraha*.
सारांश
AI
अपनी सेना सौंपकर की गई संधि 'आत्मादिष्ट' है, जबकि प्राण रक्षा के लिए सब कुछ दान कर देना 'उपग्रह' संधि कहलाती है।
४.१२९
कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः ।
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥
Summary
AI
A treaty made by giving a portion, half, or the entirety of the treasury to protect the remainder of the kingdom is called *Parikraya*.
सारांश
AI
कोष के एक अंश, आधे भाग या संपूर्ण कोष को देकर शेष की रक्षा करना 'परिक्रय' नामक संधि कहलाती है।
४.१३०
भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते ।
भूम्युत्थफलदानेन सर्वेण परभूषणः ॥
भूम्युत्थफलदानेन सर्वेण परभूषणः ॥
Summary
AI
A treaty made by ceding fertile lands is called *Ucchinna*. One made by giving away all the produce from the land is termed *Parabhūṣaṇa*.
सारांश
AI
उपजाऊ भूमि का दान 'उच्छिन्न' संधि है और भूमि से प्राप्त होने वाले समस्त फलों का दान कर देना 'परभूषण' संधि कहलाती है।
४.१३१
परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते ।
स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविचक्षणाः ॥
स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविचक्षणाः ॥
Summary
AI
Experts in diplomacy call that treaty *Skandhopaneya* where the agreed-upon tribute is delivered per unit or per load.
सारांश
AI
जहाँ संधि के अनुसार निश्चित प्रतिफल कंधे पर लादकर (इकाई के अनुसार) दिया जाता है, उसे विद्वान 'स्कन्धोपनेय' संधि कहते हैं।
४.१३२
परस्परोपकारस्तु मैत्री सम्बन्धकस्तथा ।
उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः ॥
उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः ॥
Summary
AI
Reciprocal assistance, friendship, matrimonial alliance, and gift (*Upahāra*) are understood to be the four types of treaties.
सारांश
AI
परस्पर उपकार (मैत्री), संबंध और उपहार—मुख्यतः ये चार प्रकार की संधियाँ जाननी चाहिए।
४.१३३
एक एवोपहारस्तु सन्धिरेतन्मतं हि नः ।
उपहारस्य भेदास्तु सर्वेन्ये मैत्रवर्जिताः ॥
उपहारस्य भेदास्तु सर्वेन्ये मैत्रवर्जिताः ॥
Summary
AI
In our opinion, *Upahāra* is the only true treaty. All other types, excluding friendship, are merely variations of the gift treaty.
सारांश
AI
नीतिज्ञों का मत है कि केवल 'उपहार' ही मुख्य संधि है, और मैत्री को छोड़कर अन्य सभी संधियाँ उपहार के ही विभिन्न रूप हैं।
४.१३४
अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते ।
उपहाराद् ऋते तस्मात् संधिरन्यो न विद्यते ॥
उपहाराद् ऋते तस्मात् संधिरन्यो न विद्यते ॥
Summary
AI
Since a powerful aggressor does not withdraw without receiving something, there is effectively no treaty other than *Upahāra*.
सारांश
AI
बलवान आक्रमणकारी बिना कुछ प्राप्त किए वापस नहीं लौटता, अतः उपहार के अतिरिक्त कोई अन्य वास्तविक संधि संभव नहीं है।
४.१३५
आधिव्याधिपरीतापाद् अद्य श्वो वा विनाशिने ।
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥
Summary
AI
For the sake of this body, which can be destroyed today or tomorrow by ailments or distress, who indeed would commit an act devoid of *Dharma*?
सारांश
AI
मानसिक और शारीरिक दुखों से घिरा यह शरीर आज या कल नष्ट होने वाला है, अतः इसके लिए अधर्म का आचरण कभी नहीं करना चाहिए।
४.१३६
जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम् ।
तथाविधम् इति ज्ञात्वा शश्वत्कल्याणम् आचरेत् ॥
तथाविधम् इति ज्ञात्वा शश्वत्कल्याणम् आचरेत् ॥
Summary
AI
The life of living beings is as fickle as the reflection of the moon in water. Knowing it to be such, one should always perform virtuous deeds for the welfare of all.
सारांश
AI
प्राणियों का जीवन जल में चंद्रमा की परछाई के समान चंचल है। ऐसा जानकर मनुष्य को सदैव कल्याणकारी कार्यों में लगे रहना चाहिए।
४.१३७
वाताभ्रविभ्रमम् इदं वसुधाधिपत्यम्
आपातमात्रमधुरो विषयोपभोगः ।
प्राणास्तृणाग्रजलबिन्दुसमानलोला
धर्मः सखा परम् अहो परलोकयाने ॥
आपातमात्रमधुरो विषयोपभोगः ।
प्राणास्तृणाग्रजलबिन्दुसमानलोला
धर्मः सखा परम् अहो परलोकयाने ॥
Summary
AI
Sovereignty is as fleeting as wind-blown clouds; sense enjoyment is sweet only briefly; life is as unstable as a water droplet on grass. *Dharma* is the only friend in the afterlife.
सारांश
AI
राजसत्ता बादलों की तरह अस्थिर है, भोग केवल आरंभ में सुखद हैं और प्राण ओस की बूंद जैसे चंचल हैं; परलोक में केवल धर्म ही साथ जाता है।
४.१३८
मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् ।
सज्जनैः सङ्गतं कुर्याद् धर्माय च सुखाय च ॥
सज्जनैः सङ्गतं कुर्याद् धर्माय च सुखाय च ॥
Summary
AI
Seeing the world as a mirage and momentary, one should seek the company of the virtuous for the sake of *Dharma* and happiness.
सारांश
AI
संसार को मृगतृष्णा के समान क्षणभंगुर समझकर, धर्म और सुख की प्राप्ति के लिए सदा सज्जनों की संगति करनी चाहिए।
४.१३९
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते ॥
अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते ॥
Summary
AI
If a thousand *Aśvamedha* sacrifices and Truth are weighed on a scale, Truth indeed outweighs the thousand horse sacrifices.
सारांश
AI
यदि तराजू पर एक ओर हज़ार अश्वमेध यज्ञ और दूसरी ओर सत्य को रखा जाए, तो सत्य ही यज्ञों से श्रेष्ठ सिद्ध होता है।
अतः सत्याभिधानदिव्यपुरःसरम् अनयोर्भूपालयोः काञ्चनाभिधानः सन्धिर्विधीयताम् । सर्वज्ञो ब्रूते एवम् अस्तु । ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । प्रहृष्टमनाश्चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद् बहुमानदानपुरःसरं सम्भाषितस्तथाविधं सन्धिं स्वीकृत्य राजहंससमीपं प्रस्थापितः । दूरदर्शी ब्रूतेदेव ! सिद्धं नः समीहितम् । इदानीं स्वस्थानम् एव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्वस्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवन्न् इति । विष्णुशर्मेनोक्तंपरं किं कथयामि, तद् उच्यताम् । राजपुत्रा ऊचुःार्य ! तव प्रसादात् सकलराज्यव्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् । विष्णुशर्मोवाच्यद्यप्य् एवं तथाप्यपरम् अपीदम् अस्तु ।
४.१४०
सन्धिः सर्वमहीभुजां विजयिनाम् अस्तु प्रमोदः सदा
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम् ।
नीतिवारविलासिनीव सततं वक्षःस्थले संस्थिता
वक्त्रं चुम्बतु मन्त्रिणाम् अहरहर्भूयान्महान् उत्सवः ॥
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम् ।
नीतिवारविलासिनीव सततं वक्षःस्थले संस्थिता
वक्त्रं चुम्बतु मन्त्रिणाम् अहरहर्भूयान्महान् उत्सवः ॥
Summary
AI
May there be peace among kings and joy to victors. May the virtuous be safe and the fame of the righteous grow. May *Nīti* reside with ministers, and may there be daily celebration.
सारांश
AI
राजाओं में मेल हो, विजयियों को सुख मिले, सज्जन सुरक्षित रहें और नीति सदैव मंत्रियों के वक्ष और मुख पर निवास करे।
४.१४१
प्रालेयाद्रेः सुतायाः प्रणयनिवसतिश्चन्द्रमौलिः स यावद्
यावल् लक्ष्मीर्मुरारेर्जलद इव तडिन् मानसे विस्फुरन्ती ।
यावत् स्वर्णाचलोयं दवदहनसमो यस्य सूर्यः स्फुलिङ्गस्
तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहोयं कथानाम् ॥
यावल् लक्ष्मीर्मुरारेर्जलद इव तडिन् मानसे विस्फुरन्ती ।
यावत् स्वर्णाचलोयं दवदहनसमो यस्य सूर्यः स्फुलिङ्गस्
तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहोयं कथानाम् ॥
Summary
AI
As long as Candra-mauli remains the abode of love for the daughter of the Himālaya, as long as Lakṣmī glitters in the heart of Murāri like lightning in a cloud, and as long as Mount Meru exists—of which the sun is but a spark from a forest fire—so long may this collection of stories composed by Nārāyaṇa prevail.
सारांश
AI
जब तक हिमालय-पुत्री पार्वती के प्रिय शिव, विष्णु के हृदय में बिजली के समान चमकने वाली लक्ष्मी और सुमेरु पर्वत विद्यमान हैं, तब तक नारायण द्वारा रचित यह कथा-संग्रह संसार में प्रचलित रहे।
४.१४२
उर्वीम् उद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम्
इष्टैस्त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः ।
आकल्पान्तं च भूयात् स्थिरसमुपचिता सङ्गतिः सज्जनानां
निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥
इष्टैस्त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः ।
आकल्पान्तं च भूयात् स्थिरसमुपचिता सङ्गतिः सज्जनानां
निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥
Summary
AI
May Vāsava cause the earth to yield abundant crops by releasing desired rain; may the chief brahmins duly offer sacrifices to please the gods. May the company of virtuous people remain steady and prosperous until the end of the kalpa, and may the unbearable, adamant-like words of wicked people be completely silenced.
सारांश
AI
इन्द्र यथेष्ट वर्षा से पृथ्वी को धन-धान्य से पूर्ण करें, श्रेष्ठ ब्राह्मण यज्ञों द्वारा देवताओं को संतुष्ट करें, सज्जनों का साथ कल्प के अंत तक बना रहे और दुष्टों की असहनीय एवं कठोर वाणी पूरी तरह शांत हो जाए।
४.१४३
श्रीमान्धवलचन्द्रोसौ जीयान् माण्डलिको रिपून् ।
येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥
येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥
Summary
AI
May this illustrious chieftain Dhavalacandra conquer his enemies, by whom this collection of stories was diligently caused to be transcribed and circulated.
सारांश
AI
वे वैभवशाली मांडलिक धवलचंद्र शत्रुओं पर विजय प्राप्त करें, जिन्होंने विशेष प्रयत्न पूर्वक इस कथा-संग्रह को लिखवाकर प्रसारित किया है।
॥ इति सन्धिः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.