तद् देव ! यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्गद्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राजदर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच्मन्त्रिन् ! युष्मद्आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् राजहंसो ब्रूते एवम् एव । दूरदर्शी कथयति एवम् एवैतत् । किन्त्व् इदानीं बहुप्रपञ्चवचनं निष्पर्योजनम् । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.