चित्रवर्णः पृच्छतिकथम् एतत् मन्त्री कथयति अस्ति गौतमस्य महर्षेस्तपोवने महातपा नाम मुनिः । तत्र तेन आश्रमसंनिधाने मूषिकशावकः काकमुखाद् भ्रष्टो दृष्टः । ततो दयायुक्तेन तेन मुनिआ नीवारकणैः संवर्धितः । ततो बिडालस्तं मूषिकं खादितुम् उपधावति । तम् अवलोक्य मूषिकस्तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम्मूषिक ! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तंकुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद् बिभेति ततस्तेन मुनिना कुक्कुरो व्याघ्रः कृतः । अथ तं व्याघ्रं मुनिर्मूषिकोयम् इति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्तिनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच् छ्रुत्वा सव्यथो व्याघ्रोचिन्तयत्यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस्तं मुनिं हन्तुं गतः । ततो मुनिना तज् ज्ञात्वापुनर्मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः । अतोहं ब्रवीमिनीचः श्लाघ्यपदं प्राप्येत्य् आदि ॥ अपरं च, देव ! सुकरम् इदम् इति न मन्तव्यम् । शृणु
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.