तद् युवां क्षात्रधर्मानुगौ । युद्द एव युवयोर्नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वान्योन्यतुल्यवीर्यौ, समकालम् अन्योन्यघातेन विनाशम् उपागतौ । अतोहं ब्रवीमिसन्धिम् इच्छेत् समेनापि इत्य् आदि । राजाह्तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः मन्त्री ब्रूतेतदा मद्वचनं किम् अवसानपर्यन्तं श्रुतं भवद्भिः तदापि मम संमत्या नायं विग्रहारम्भः । यतःसाधुगुणयुक्तोयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.