चित्रवर्णः पृच्छतिकथम् एतत् मन्त्री कथयति अस्ति मालवविषये पद्मगर्भाभिधानं सरः । तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश्च्किम् इति भवान् अत्राहारत्यागेन तिष्ठति बकेनोक्तम्मत्स्या मम जीवनहेतवः । ते कैवर्तैरागत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावाद् एवास्मन्मरणम् उपस्थितम् इति ज्ञात्वाहारेप्यनादरः कृतः । ततो मत्स्यैरालोचितमिह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयम् एव यथाकर्तव्यं पृच्छ्यताम् । तथा चोक्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.