अस्ति देवीकोटनाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस्तम् आदायासौ कुम्भकारस्य भाण्डपूर्णमण्डपैकदेशे रौद्रेणाकुलितः सुप्तः । ततः सक्तुरक्षार्थं हस्ते दण्डम् एकम् आदायाचिन्तयत्द्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर्घटशरावादिकम् उपक्रीयानेकधा वृद्धैस्तद्धनैः पुनः पुनः पूर्गवस्त्रादिम् उपक्रीय, विक्रीय लक्षसङ्ख्यानि धनानि कृत्वा, विवाहचतुष्टयं करिष्यामि । अनन्तरं तासु स्वपत्नीषु या रूपयौवनवती तस्याम् अधिकानुरागं करिष्यामि । सपत्न्यो यदा द्वन्द्वं करिष्यामि, तदा कोपाकुलोहं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश्चूर्णितो भाण्डानि च बहूनि भग्नानि । ततस्तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्य् अवलोक्य, ब्राह्मणस्तिरस्कृतो मण्डपाद् बहिष्कृतश्च । अतोहं ब्रवीमि अनागतवतीं चिन्ताम् इत्य् आदि । ततो राजा रहसि गृध्रम् उवाच्तात ! यथा कर्तव्यं तथोपदिश । गृध्रो ब्रूते
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.