राजाहकथम् एतत् स कथयति अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास्त्रयः काको व्याघ्रो जम्बुकश्च । अथ तैर्भ्रमद्भिः सार्थभ्रष्टः कश्चिद् उष्ट्रो दृष्टः । पृष्टश्च्कुतो भवान् आगतः सार्थाद् भ्रष्टः स चात्मवृत्तान्तम् अकथयत् । ततस्तैर्नीत्वा सिंहायासौ समर्पितः । तेन चाभयवाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः । अथ कदाचित् सिंहस्य शरीरवैकल्याद् भूरिवृष्टिकारणाच् चाहारम् अलभमानास्ते व्यग्रा बभूवुः । ततस्तैरालोचितम् । चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किम् अनेन कण्टकभुजास्माकम् व्याघ्र उवाच्स्वामिनाभयवाचं दत्त्वानुगृहीतोयं, तत् कथम् एवं सम्भवति
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.