अस्त्य् उत्तरापथे गृध्रकूटनाम्नि पर्वते महान् पिप्पलवृक्षः । तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद् विवरे सर्पस्तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्धबकेनाभिहितंभो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुलविवराद् आरभ्य सर्पविवरं यावत्पङ्क्तिक्रमेण एकैकशो विकिरत । ततस्तद्आहारलुब्धैर्नकुलैरागत्य सर्पो द्रष्टव्यः । स्वभावद्वेषाद् व्यापदयितव्यश्च । तथानुष्ठिते सति तद् वृत्तम् । अथ नकुलैर्वृक्षोपरि बकशावकानां रावः श्रुतः । पश्चात् तद्वृक्षम् आरुह्य बकशावकाः खादिताः । अत आवां ब्रूवःुपायं चिन्तयन् इत्य् आदि । आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव । यदि त्वम् उत्तरं दास्यसि, तदा त्वन्मरणम् । तत् सर्वथैव स्थीयताम् । कूर्मो वदतिकिम् अहम् अप्राज्ञः नाहम् उत्तरं दास्यामि । न किम् अपि मया वक्तव्यम् । तथानुष्ठिते तथाविधं कूर्मम् आलोक्य सर्वे गोरक्षकाः पश्चाद् धावन्ति, वदन्ति चहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते । कश्चिद् वदतियद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः । कश्चिद् वदतिसरसस्तीरे दग्ध्वा खादितव्योयम् । कश्चिद् वदतिगृहं नीत्वा भक्षणीयः । इति । तद्वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसंस्कारः प्राह्युष्माभिर्भस्म भक्षितव्यम् इति वदन्न् एव पतितस्तैर्व्यापादितश्च । अतोहं ब्रवीमिसुहृदां हितकामानाम् इत्य् आदि । अथ प्रणिधिर्बकस्तत्रागत्योवाच्देव ! प्राग् एव मया निगदितं दुर्गशोध हि प्रतिक्षणं कर्तव्यम् इति । तच् च युष्माभिर्न कृतं, तद्अनवधानस्य फलम् इदम् अनुभूतम् । दुर्गदाहो मेघवर्णेन वायसेन गृध्रप्रत्युक्तेन कृतः । राजा निःश्वस्याह्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.