राजोवाचकथम् एतत् मन्त्री कथयति पुरा दैत्यौ सहोदरौ सुन्दोपसुन्दनामानौ महता कायक्लेशेन त्रैलोक्यराज्यकामनया चिराच् चन्द्रशेखरम् आराधितवन्तौ । ततस्तयोर्भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच । अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् तावन्यद् वक्तुकामावन्यद्अभिहितवन्तौयद्य् आवयोर्भवान् परितुष्टस्तदा स्वप्रियां पार्वतीं परमेश्वरो ददातु । अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया, विचारमूढयोः पार्वती प्रदत्ता । ततस्तस्या रूपलावण्यलुब्धाभ्यां, जगद्घातिभ्यां मससोत्सुकाभ्यां, पापतिमिराभ्याम्, ममेत्य् अन्योन्यं कलहायमानाभ्यां, प्रमाणपुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृद्धद्विजरूपः समागत्य तत्रोपस्थितः । अनन्तरंावाभ्याम् इयं स्वबललब्धा, कस्येयम् आवयोर्भवति इति ब्राह्मणम् अपृच्छताम् । ब्राह्मणो ब्रूते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.