राहाह्कथम् एतत् मन्त्री कथयति अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं सङ्कटविकटनामानौ हंसौ निवसतः । तयोर्मित्रं कम्बुग्रीवनामा कूर्मश्च प्रतिवसति । अथैकदा धीवरैरागत्य तथोक्तं यत्त्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयितव्याः । तद् आकर्ण्य कूर्मो हंसाव् आह्सुहृदौ ! श्रुतोयं धीवरालापः । अधुना किं मया कर्तव्यम् हंसाव् आहतुःज्ञायतां तावत् । पुनस्तावत् प्रातर्यद् उचितं तत् कर्तव्यम् । कूर्मो ब्रूतेमैवम् । यतो दृष्टव्यतिकरोहम् अत्र । यथा चोक्तम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.