काको ब्रूतेनासौ स्वामिना व्यापादयितव्यः । किन्त्व् अस्माभिरेव तथा कर्तव्यं, यथासौ स्वदेहदानम् अङ्गीकरोति । सिंहस्तच् छ्रुत्वा तूष्णीं स्थितः । ततोसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । अथ काकेनोक्तंदेव ! यत्नाद् अप्याहारो न प्राप्तः । अनेकोपवासक्लिष्टश्च स्वामी । तद् इदानीं मदीयमांसम् उपभुज्यताम् । यतः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.