इत्य् आलोच्य स कुलीरकस्तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतोहं ब्रवीमिभक्षयित्वा बहून्मत्स्यान् इत्य् आदि । ततश्चित्रवर्णोवदत्शृणु तावन्मन्त्रिन् ! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूरद्वीपस्योत्तमानि तावन्त्य् अस्माकम् उपनेतव्यानि । तेनास्माभिर्महासुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याह्देव !
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.