अतः सत्याभिधानदिव्यपुरःसरम् अनयोर्भूपालयोः काञ्चनाभिधानः सन्धिर्विधीयताम् । सर्वज्ञो ब्रूते एवम् अस्तु । ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । प्रहृष्टमनाश्चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद् बहुमानदानपुरःसरं सम्भाषितस्तथाविधं सन्धिं स्वीकृत्य राजहंससमीपं प्रस्थापितः । दूरदर्शी ब्रूतेदेव ! सिद्धं नः समीहितम् । इदानीं स्वस्थानम् एव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्वस्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवन्न् इति । विष्णुशर्मेनोक्तंपरं किं कथयामि, तद् उच्यताम् । राजपुत्रा ऊचुःार्य ! तव प्रसादात् सकलराज्यव्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् । विष्णुशर्मोवाच्यद्यप्य् एवं तथाप्यपरम् अपीदम् अस्तु ।
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.