राजाहलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम् । एतन्मन्त्रयित्वा गृध्रो महामन्त्रीतत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यन्तरं चलितः । ततः प्रणिधिबकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितंदेव ! सन्धिकर्तुं महामन्त्री गृध्रोस्मत्समीपम् आगच्छति । राजहंसो ब्रूतेमन्त्रिन् ! पुनरभिसन्धिना केनचिद् अत्रागमनम् । सर्वज्ञो विहस्याह्देव ! न शङ्कास्पदम् एतत् । यतोसौ महाशयो दूरदर्शी । अथवा स्थितिरियं मन्दमतीनां, कदाचिच् छङ्कैव न क्रियते, कदाचित् सर्वत्र शङ्का ।
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.