सिंहेनोक्तंभद्र ! वरं प्राणपरित्यागो, न पुनरीदृशे कर्मणि प्रवृत्तिः । जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तंमैवम् । अथ व्याघ्रेणोक्तंमद्देहेन जीवतु स्वामी । सिंहेनोक्तंन कदाचिद् एवम् उचितम् । अथ चित्रकर्णोपि जातविश्वासस्तथैवात्मदेहदानम् आह्ततस्तद्वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर्भक्षितश्च । अतोहं ब्रवीमिमतिर्दोलायते सत्यम् इत्य् आदि । ततस्तृतीयधूर्तवचनं श्रुत्वा, स्वमतिभ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश्च तैर्धूर्तैर्नीत्वा भक्षितः । अतोहं ब्रवीमिात्मौपम्येन यो वेत्तीत्य् आदि । राजाह्मेघवर्ण ! कथं शत्रुमध्ये त्वया सुचिरम् उषितम् कथं वा तेषाम् अनुनयः कृतः मेघवर्ण उवाच्देव ! स्वामिकार्यार्थितया स्वप्रयोजनवशाद् वा किं किं न क्रियते पश्य्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.