१
छायावृक्षमुपाश्रयन्ति पथिषु श्रान्ता हि पान्थाः समं
तेष्वेकोऽस्य शुभं शुभेन मनसा हृष्यन्ननुध्यायति ।
अन्यो हर्तुमपेक्षतेऽस्य विटपानाधारयष्टेः कृते
कश्चिनिश्चिनुते कवाटफलकं कर्तुं तमेव क्षणात् ॥
तेष्वेकोऽस्य शुभं शुभेन मनसा हृष्यन्ननुध्यायति ।
अन्यो हर्तुमपेक्षतेऽस्य विटपानाधारयष्टेः कृते
कश्चिनिश्चिनुते कवाटफलकं कर्तुं तमेव क्षणात् ॥
Summary
AI
Tired travelers on their paths equally take shelter under a shade-giving tree. Among them, one, rejoicing with a good heart, wishes it well. Another desires to take its branches for a support stick. Yet another decides in a moment to make a door panel out of the very same tree.
२
श्वानः सन्त्यभितोऽपि दन्तमुकुलव्यावर्तनोत्पाटित-
स्वैरोत्तानितविड्वराहपृथुकाः किं तैः स्थितैर्वा मृतैः ।
वस्तव्यं गिरिराजमौलिषु विहर्तव्यं पुनः स्वेच्छया
हन्तव्याः करिणो मृगेन्द्र इति च प्राप्तव्यमुच्चैर्यशः ॥
स्वैरोत्तानितविड्वराहपृथुकाः किं तैः स्थितैर्वा मृतैः ।
वस्तव्यं गिरिराजमौलिषु विहर्तव्यं पुनः स्वेच्छया
हन्तव्याः करिणो मृगेन्द्र इति च प्राप्तव्यमुच्चैर्यशः ॥
Summary
AI
There are dogs all around, who can tear apart young boars with their teeth. But what is the use of them, whether they are alive or dead? One should live on the peaks of great mountains, roam at will, kill elephants, and thus obtain the high fame of being a "Lion, the king of beasts."
३
किं पुष्णासि मृगान्मृगादनकुलात्किं वा परित्रायसे
त्वद्भाग्येन तथाप्यमी वनभुवि स्वैरं चरित्वा तृणम् ।
त्वां राजानमुपासितुं यदि किल श्रद्धां निबध्नन्ति तकि
पारीन्द्र गुहागृहादपि विनिर्गन्तुं तवैष श्रमः ॥
त्वद्भाग्येन तथाप्यमी वनभुवि स्वैरं चरित्वा तृणम् ।
त्वां राजानमुपासितुं यदि किल श्रद्धां निबध्नन्ति तकि
पारीन्द्र गुहागृहादपि विनिर्गन्तुं तवैष श्रमः ॥
Summary
AI
O Lion, do you nourish the deer? Do you protect them from predators? Even so, by your good fortune, these deer, after grazing freely on grass in the forest, serve you as their king. If so, why do you exhibit this laziness to even come out of your cave-home?
४
उन्मुच्य स्वजनानुपेक्ष्य तृणवत्प्राणानपि प्रेयस-
स्तीर्वा दुस्तरमर्णवं च वणिजः प्राप्ताः पटीराशया ।
श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातः परं
त्वं वा केवलमङ्गमङ्गमुरग व्यालिम्प गन्धद्रवैः ॥
स्तीर्वा दुस्तरमर्णवं च वणिजः प्राप्ताः पटीराशया ।
श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातः परं
त्वं वा केवलमङ्गमङ्गमुरग व्यालिम्प गन्धद्रवैः ॥
Summary
AI
O serpent, merchants have arrived with the hope of getting sandalwood, having left their families, disregarded their dear lives like straw, and crossed the difficult ocean. They were turned back by your fearsome hisses. Henceforth, be at ease. Or, just anoint your every limb with fragrant substances (the sandalwood you guard).
५
भ्रान्त्वा दिग्वलभीर्विचित्य विपिनान्यासाद्य दैवादिह
क्वापि क्वापि मुखेन केवलमथैकैकां शलाकां हरन् ।
कृत्वा नीडकुटीं चिरात्तरुशिरस्यध्यास्त यावन्न तां
काकस्तावदहो तदेव विपिनं दग्धं दवज्वालया ॥
क्वापि क्वापि मुखेन केवलमथैकैकां शलाकां हरन् ।
कृत्वा नीडकुटीं चिरात्तरुशिरस्यध्यास्त यावन्न तां
काकस्तावदहो तदेव विपिनं दग्धं दवज्वालया ॥
Summary
AI
A crow, having wandered the horizons and searched forests, arrived here by fate. Then, carrying twigs one by one in its beak from various places, it finally built a small nest on a treetop. Alas, just as it was about to settle in, that very forest was consumed by a forest fire.
६
नाम्भोजाय शशी न चापि शशिने यद्रोचतेऽम्भोरुहं
किं तेन क्षतमस्ति किञ्चन जगत्येतस्य वा तस्य वा ।
लोकानन्दकयोः परं त्विह तयोः प्रेम्णैव भाव्यं मिथ-
स्तच्चेन्नाजनि तत्प्ररूढमयशः स्फारं विधेः केवलम् ॥
किं तेन क्षतमस्ति किञ्चन जगत्येतस्य वा तस्य वा ।
लोकानन्दकयोः परं त्विह तयोः प्रेम्णैव भाव्यं मिथ-
स्तच्चेन्नाजनि तत्प्ररूढमयशः स्फारं विधेः केवलम् ॥
Summary
AI
The moon is not pleasing to the day-lotus, nor is the lotus pleasing to the moon. Is there any harm in the world to either of them because of this? No. But between these two, who both delight the world, there should have been mutual love. If that love was not born, it is simply the vast and great disgrace of Fate.
७
अस्तप्रत्युपकारगन्धमकृतस्वप्रार्थनापेक्षम-
प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यतो जन्तवः ।
दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति
यद्विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥
प्यम्भोभिर्भुवमार्द्रयन्ति जलदा जीवन्त्यतो जन्तवः ।
दैवज्ञः पुनरस्ति वृष्टिरिति वागेका मयोक्तेति
यद्विश्वं क्रीतमिवाधिगच्छति तदेवाघूर्णते मर्मणि ॥
Summary
AI
Clouds moisten the earth with their waters without any expectation of a return favor or even a prayer, and thus living beings survive. But the astrologer, just because he said the single sentence "There will be rain," considers the whole world as if purchased by him. This very thought pains my heart.
८
अस्ति स्वादु फलं किमस्ति किमथ घ्रातुं क्षमः कोरक-
स्तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः ।
सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृनाधमः पिप्पलो
दुःस्वातन्त्र्यमिदं विधेः कथय तत्कस्याग्रतो रुद्यताम् ॥
स्तद्विश्राम्यतु नाम भोक्तुमुचितं पत्रं किमस्त्यन्ततः ।
सेव्यो हन्त यदीदृशोऽपि मनुजैर्वृनाधमः पिप्पलो
दुःस्वातन्त्र्यमिदं विधेः कथय तत्कस्याग्रतो रुद्यताम् ॥
Summary
AI
Does it have tasty fruit? Does it have a fragrant bud to smell? Let that be. At least, does it have a leaf suitable for eating? Alas, if even such a lowly tree as the Peepal is resorted to by people, tell me, before whom should one cry about this evil caprice of Fate?
९
सर्वासां सरितां पतिर्यदि यदि व्याप्ताः समस्ता दिशः
कल्पान्तेष्वपि वा न शुष्यति यदि स्वैरं तदङ्गीकृतम् ।
अम्भः स्वादु पिपासतः पथि परिश्रान्तस्य पान्थस्य किं
तेन स्यात्फलमर्णवोऽयमिति चेदिन्दुग्रहे स्नास्यताम् ॥
कल्पान्तेष्वपि वा न शुष्यति यदि स्वैरं तदङ्गीकृतम् ।
अम्भः स्वादु पिपासतः पथि परिश्रान्तस्य पान्थस्य किं
तेन स्यात्फलमर्णवोऽयमिति चेदिन्दुग्रहे स्नास्यताम् ॥
Summary
AI
If you are the lord of all rivers, if you pervade all directions, if you don't dry up even at the end of eons - all that is freely accepted. But what is the use of that to a tired and thirsty traveler on the path who needs sweet water? If the argument is "this is the great ocean," then let people use it for bathing during a lunar eclipse (implying it's not for drinking).
१०
स्थित्वा तीरभुवि प्रसार्य सरसि स्वैरं कराग्रं पयः
पातव्यं पिब तावता न विरमेद्दन्तीन्द्र किं ते तृषा ।
उन्मृद्नासि तटीरपः कलुषयस्युन्मूलयस्यब्जिनी-
हानिः कस्य तवैव मृग्यमुदकं भ्रातः पुनस्तृष्यतः ॥
पातव्यं पिब तावता न विरमेद्दन्तीन्द्र किं ते तृषा ।
उन्मृद्नासि तटीरपः कलुषयस्युन्मूलयस्यब्जिनी-
हानिः कस्य तवैव मृग्यमुदकं भ्रातः पुनस्तृष्यतः ॥
Summary
AI
O king of elephants, stand on the bank, extend the tip of your trunk into the lake, and drink the water that needs to be drunk. Why would your thirst not be quenched by just that? You destroy the banks, muddy the water, and uproot the lotuses. Whose loss is it? Brother, it is you who will have to search for water again when you are thirsty.
११
को दोषः परतो गते मधुकरे क्रीतः किमेष त्वया
क्रीतेनापि किमास्यते क्वचिदिह ग्लानोदरेण क्षणम् ।
जानास्येवमथापि चेक्षिपसि तं कर्णानिलैर्दूरतो
दुर्धर्षोऽसि निरङ्कुशोऽसि भवतो मत्तेभ वक्तैव कः ॥
क्रीतेनापि किमास्यते क्वचिदिह ग्लानोदरेण क्षणम् ।
जानास्येवमथापि चेक्षिपसि तं कर्णानिलैर्दूरतो
दुर्धर्षोऽसि निरङ्कुशोऽसि भवतो मत्तेभ वक्तैव कः ॥
Summary
AI
O rutting elephant, what is the harm if the bee goes elsewhere? Have you purchased it? Even if purchased, can a hungry creature stay in one place for even a moment? You know this, and yet you fling it far away with the wind from your ears. You are unassailable, you are unrestrained. Who can even advise you?
१२
नेतव्यः समयः कियानिव सखे काक त्वया भ्राम्यता
हंसीभूय सुखेन भुङ्क्ष्व नलिनीनालानि पद्माकरे ।
व्यावर्तव्यमिहास्ति किं विमलता किञ्चित्तु कार्या तनो-
र्हसत्वे यदि ते जनो विवदते दण्ड्योऽहमस्म्यग्रतः ॥
हंसीभूय सुखेन भुङ्क्ष्व नलिनीनालानि पद्माकरे ।
व्यावर्तव्यमिहास्ति किं विमलता किञ्चित्तु कार्या तनो-
र्हसत्वे यदि ते जनो विवदते दण्ड्योऽहमस्म्यग्रतः ॥
Summary
AI
O friend crow, how much time must you spend wandering like this? Become a swan and happily eat lotus stalks in the lotus pond. What needs to be changed? Only a little whiteness of the body needs to be achieved. If people dispute your swan-ness, I am here to be punished first.
१३
किं त्वं दोहदमीहसे किमुदकैः सिक्तोऽसि किं केनचि-
द्बद्धस्ते सकृदालवालवलयः किं ते मही संस्कृता ।
द्विस्त्रिः पुष्प्यसि वासरस्य न गुणान्धुत्तूर ते निह्नुवे
दुर्गन्धो न भवेदियान्यदि ततस्त्वं पारिजातोऽसि नः ॥
द्बद्धस्ते सकृदालवालवलयः किं ते मही संस्कृता ।
द्विस्त्रिः पुष्प्यसि वासरस्य न गुणान्धुत्तूर ते निह्नुवे
दुर्गन्धो न भवेदियान्यदि ततस्त्वं पारिजातोऽसि नः ॥
Summary
AI
O Dhattura plant, do you desire special nourishment? Are you watered? Has anyone ever built a basin for you? Was the ground prepared for you? You bloom two or three times a day. I do not deny your qualities. If you did not have such a foul smell, you would be a Parijata tree for us.
१४
गन्तव्यं जलमध्य एव गतवन्मन्तव्यमेतद्वपुः
क्षन्तव्या लवणानिला इति कृतं निर्विद्य सांयात्रिक ।
अन्तर्वेश्मनि हंसतूलशयने सुप्त्वा सुखं जाग्रतो
हस्ताग्रे धनमेष्यति स्वयमिति भ्रातः किमास्ते हृदि ॥
क्षन्तव्या लवणानिला इति कृतं निर्विद्य सांयात्रिक ।
अन्तर्वेश्मनि हंसतूलशयने सुप्त्वा सुखं जाग्रतो
हस्ताग्रे धनमेष्यति स्वयमिति भ्रातः किमास्ते हृदि ॥
Summary
AI
O sea-merchant, enough with this despairing thought: "I must go into the sea, this body must be considered as good as gone, the salty winds must be endured." Brother, do you really think that wealth will come by itself to your fingertips as you wake up after sleeping comfortably at home on a bed of swan-down?
१५
आसीनः सुखमापणे यदि वणिक्श्रद्धालुभिः प्रार्थितः
किञ्चिच्छंसति पञ्चकं दशकमित्येतन्न तस्याद्भुतम् ।
आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते
मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥
किञ्चिच्छंसति पञ्चकं दशकमित्येतन्न तस्याद्भुतम् ।
आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते
मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥
Summary
AI
If a merchant, sitting comfortably in his shop, quotes a price of five or ten when requested by customers, that is no wonder. The real wonder is the one who, when the calamitous wind blows, the water is churned up to the netherworld, and even as the ship is sinking, does not give up that same price-point.
१६
विद्धं मर्मसु येन येन गरलोन्मिश्रा गिरः श्राविता
जज्वाल ज्वलनास्त्रवन्निशि निशि क्रूरैः करैर्यः सदा ।
सर्वे ते सुहृदो बभूवुरधुना सङ्गे मिथः कामिनो-
र्दौर्जन्यस्य विभावनात्परिणतौ दूती परं दूषिता ॥
जज्वाल ज्वलनास्त्रवन्निशि निशि क्रूरैः करैर्यः सदा ।
सर्वे ते सुहृदो बभूवुरधुना सङ्गे मिथः कामिनो-
र्दौर्जन्यस्य विभावनात्परिणतौ दूती परं दूषिता ॥
Summary
AI
The moon, whose cruel rays pierced the vital spots and blazed like a fiery weapon night after night, and others (like the cuckoo) whose sounds were like poison-laced words—all of them have now become friends in the lovers' union. In the end, due to the perception of wickedness, only the female messenger was blamed.
१७
सन्नद्धेषु पयोधरेषु चलिते मन्दं पुरोमारुते
कादम्बैः कमलाभिमानिभिरपि त्यक्त्वा सरः प्रस्थितम् ।
मिथ्यारोपितपौरुषैर्मधुकरैर्मुग्धैर्यदध्यासितं
तस्येदं फलमम्भसा प्रवहता सैवाब्जिनी मज्जिता ॥
कादम्बैः कमलाभिमानिभिरपि त्यक्त्वा सरः प्रस्थितम् ।
मिथ्यारोपितपौरुषैर्मधुकरैर्मुग्धैर्यदध्यासितं
तस्येदं फलमम्भसा प्रवहता सैवाब्जिनी मज्जिता ॥
Summary
AI
When the clouds gathered and the east wind began to blow gently, even the Kadamba ducks, who take pride in the lotuses, left the lake and departed. The foolish bees, with their falsely assumed valor, remained. This is the result of their action: that very lotus plant was submerged by the flowing water.
१८
सन्त्यक्ता यदि केतकी त्रिभुवनश्लाघ्या पुरद्रोहिणा तस्मिन्नेव हि पर्यवस्यति ततो वस्तुष्वसारज्ञता ।
किं वेणीषु न तां वहन्ति सुदृशः किं सा न विक्रीयते ।
किं नेमामुपलालयन्ति रसिकाः पृथ्वीभुजो मौलिभिः ॥
किं वेणीषु न तां वहन्ति सुदृशः किं सा न विक्रीयते ।
किं नेमामुपलालयन्ति रसिकाः पृथ्वीभुजो मौलिभिः ॥
Summary
AI
If the Ketaki flower, praised in all three worlds, was abandoned by Shiva, then this only proves his inability to discern the value of things. Do beautiful women not wear it in their braids? Is it not sold? Do not connoisseur kings cherish it on their crowns?
१९
कोणे क्वाप्यवतीर्य गात्रमभितः सिक्त्वा पयःशीकरै-
रास्वाद्योदकमागतोऽस्मि पुनरित्यास्ते गजस्याशये ।
कासारस्य दशा त्वसौ कलुषितान्यम्भांसि भग्नास्तटाः
प्रध्वस्ता नलिनी किमत्र बहुना खातव्यमास्ते पुनः ॥
रास्वाद्योदकमागतोऽस्मि पुनरित्यास्ते गजस्याशये ।
कासारस्य दशा त्वसौ कलुषितान्यम्भांसि भग्नास्तटाः
प्रध्वस्ता नलिनी किमत्र बहुना खातव्यमास्ते पुनः ॥
Summary
AI
In the elephant's mind, it thinks, "I have come again, having descended into a corner, sprinkled my body with water drops, and tasted the water." But this is the condition of the pond: the waters are muddied, the banks are broken, the lotus plant is destroyed. What more is there to say? It needs to be re-dug.
२०
द्यौरित्थं क्षितिरित्थमित्थमुदधेर्मुद्रेति कृत्वा स्थितिं
विश्वस्याहनि विश्रमाय शयितुं प्रारम्भि धात्रा यदा ।
दग्धं चण्डकरैस्तदैव पवनैरौत्पातिकैः शोषितं
मेघैः प्लावितमद्भुतैरपि जगत्स्रष्टव्यमासीत्पुनः ॥
विश्वस्याहनि विश्रमाय शयितुं प्रारम्भि धात्रा यदा ।
दग्धं चण्डकरैस्तदैव पवनैरौत्पातिकैः शोषितं
मेघैः प्लावितमद्भुतैरपि जगत्स्रष्टव्यमासीत्पुनः ॥
Summary
AI
When the Creator, having established the order of the universe—"the sky thus, the earth thus, the ocean's boundary thus"—began to sleep for rest during his day, at that very moment the world was burnt by the sun, dried by calamitous winds, and also flooded by strange clouds. The world had to be created all over again.
२१
स्वस्ति स्वागतमास्यते सुखममी जाताः कुतः पल्लवाः
हन्तासन्कुसुमान्यपीह किमतो माध्वी च तत्रेक्ष्यते ।
किं भृङ्गा अपि सन्ति साधु शिरसि न्यस्तं पदं शाखिनां
धुत्तूरास्ति न दुर्लभं किमपि ते यावद्वसन्तः सुखी ॥
हन्तासन्कुसुमान्यपीह किमतो माध्वी च तत्रेक्ष्यते ।
किं भृङ्गा अपि सन्ति साधु शिरसि न्यस्तं पदं शाखिनां
धुत्तूरास्ति न दुर्लभं किमपि ते यावद्वसन्तः सुखी ॥
Summary
AI
"Hail, Dhattura! Welcome! Are you well? Where did these sprouts come from? Oh, were there flowers too? And is honey seen there? Are there bees as well? Excellent! You have placed your foot on the heads of all trees." As long as Spring is favorable, nothing is unattainable for you.
२२
दृष्टाश्चन्द्रसमुद्गमाः शतमतिक्रान्ताः शतं प्रावृषः
सीमामेष न जात्वलङ्घत किलेत्यब्धिर्न विश्वस्यताम् ।
योऽसौ शेत इवायमेव विधिना वामेन चेच्चाल्यते
का सीमेति तदास्ति के जनपदाः का मेदिनी का दिशः ॥
सीमामेष न जात्वलङ्घत किलेत्यब्धिर्न विश्वस्यताम् ।
योऽसौ शेत इवायमेव विधिना वामेन चेच्चाल्यते
का सीमेति तदास्ति के जनपदाः का मेदिनी का दिशः ॥
Summary
AI
A hundred moonrises have been seen, a hundred monsoons have passed. Do not trust the ocean thinking, "It has never transgressed its boundary." If this very ocean, which seems as if it is sleeping, is stirred by an adverse fate, then what boundary will remain? What lands, what earth, what directions will there be?
२३
सर्वत्र स्रवतोऽस्य किञ्चिदुदकं दिष्ट्या मुहूर्ते क्वचि-
च्छुक्तीनामुदरेषु मौक्तिकमभूत्काले कदाचित्किल ।
अद्यत्वेऽपि तथा करोतु पटुता यद्यस्ति तद्धूरतः
शुष्कैरेव तु गर्जितैर्व्यथयति श्रोत्राणि धाराधरः ॥
च्छुक्तीनामुदरेषु मौक्तिकमभूत्काले कदाचित्किल ।
अद्यत्वेऽपि तथा करोतु पटुता यद्यस्ति तद्धूरतः
शुष्कैरेव तु गर्जितैर्व्यथयति श्रोत्राणि धाराधरः ॥
Summary
AI
They say that once upon a time, by luck, at some auspicious moment, a little water from this ever-flowing cloud became a pearl in the belly of an oyster. If it has such skill, let it do so now as well. But that is far from happening. The cloud only pains the ears with its dry thundering.
२४
आयुस्ते कियदस्ति तत्र च कियत्तारुण्यमत्रापि
खल्वर्धं निर्गलितं निशात्मकतया यत्रास्ति सङ्गो न ।
ते शेषाः सन्ति कति क्षणाः प्रणयजस्तत्रापि कोपो यदि
व्यर्थं निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥
खल्वर्धं निर्गलितं निशात्मकतया यत्रास्ति सङ्गो न ।
ते शेषाः सन्ति कति क्षणाः प्रणयजस्तत्रापि कोपो यदि
व्यर्थं निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ॥
Summary
AI
O female Chakravaka bird, how long is your life? And in that, how long is your youth? Even of that, half has passed away as night, during which you have no union. How many moments are left? If even in that time there is anger born of love, then consider your birth futile. Who will give you good advice?
२५
सर्वेषां विदिताः सुधाकरकराः साक्षात्सुधारूपिणः
सन्देहोऽपि न तद्भुजः सुमनसो जाता अमर्त्या इति ।
तानेव ह्युपभुञ्जते प्रतिनिशं दीनाश्वकोरा इमे
क्षीयन्ते तृणवच्च को नु गहनां जानातु धातुर्गतिम् ॥
सन्देहोऽपि न तद्भुजः सुमनसो जाता अमर्त्या इति ।
तानेव ह्युपभुञ्जते प्रतिनिशं दीनाश्वकोरा इमे
क्षीयन्ते तृणवच्च को नु गहनां जानातु धातुर्गतिम् ॥
Summary
AI
It is known to all that the moon's rays are nectar itself. There is no doubt that the gods who consumed it became immortal. Yet these wretched Chakora birds consume those very rays every night and still waste away like grass. Who indeed can understand the profound ways of the Creator?
२६
अर्चामः सततं गणाधिपमथाप्याखून्निहन्मः शतं
ध्यायामो हृदि भैरवं तदपि तु प्रोत्सारयामः शुनः ।
भूतेशं प्रणुमस्तथापि शतशो भूतान्निगृह्णीमहे
न ह्येकस्य गुणः परस्य महतो दोषानपि प्रोणुते ॥
ध्यायामो हृदि भैरवं तदपि तु प्रोत्सारयामः शुनः ।
भूतेशं प्रणुमस्तथापि शतशो भूतान्निगृह्णीमहे
न ह्येकस्य गुणः परस्य महतो दोषानपि प्रोणुते ॥
Summary
AI
We worship Ganapati, yet we kill hundreds of his mice. We meditate on Bhairava, but we drive away his dogs. We praise Bhutesha (Shiva), yet we torment hundreds of beings. Indeed, a good quality in one person does not cover up the faults of another great person associated with them, highlighting the hypocrisy of actions that contradict one's professed devotion.
२७
अन्तः क्षोभकृतः कतीह तिमयः कत्युच्छ्रिताः पर्वताः
कीहक्चान्तरबिन्धनो हुतवहः कीदृक्च नौकागतिः ।
आगच्छत्प्रतिगच्छदुच्चलदुपश्लिष्यत्प्रधावत्पत-
त्कल्लोलारभटीभिरेव जलधेः सर्वं तदाच्छाद्यते ॥
कीहक्चान्तरबिन्धनो हुतवहः कीदृक्च नौकागतिः ।
आगच्छत्प्रतिगच्छदुच्चलदुपश्लिष्यत्प्रधावत्पत-
त्कल्लोलारभटीभिरेव जलधेः सर्वं तदाच्छाद्यते ॥
Summary
AI
How many agitation-causing whales are within? How many lofty mountains? What is the nature of the submarine fire, and the movement of ships? All this is concealed by the ocean's tumultuous display of waves—coming, going, rising, embracing, rushing, and falling. The external grandeur of a great person often hides their internal turmoil and complexities.
२८
जामाता कमलाक्ष एव गृहिणी गङ्गा जगत्पावनी
शीतांशुप्रमुखाः सुता भगवती श्रीरेव कन्या स्वयम् ।
ईदृक्ते गृहमेधिता त्रिभुवनाधारस्य वारान्निधे
कः शक्नोति जनो मनोरथपथेऽप्येतावदुत्प्रेक्षितुम् ॥
शीतांशुप्रमुखाः सुता भगवती श्रीरेव कन्या स्वयम् ।
ईदृक्ते गृहमेधिता त्रिभुवनाधारस्य वारान्निधे
कः शक्नोति जनो मनोरथपथेऽप्येतावदुत्प्रेक्षितुम् ॥
Summary
AI
O Ocean, repository of waters and support of the three worlds! Your son-in-law is the lotus-eyed Vishnu, your wife is the world-purifying Ganga, your sons are the Moon and others, and the goddess Shri (Lakshmi) herself is your daughter. Who could even imagine such a magnificent household, even in their wildest dreams?
२९
यन्मूले निखिलागमानुपदिशत्तत्त्वं परं शाङ्करं
यत्पर्णे जगतां निधिः स तु वटो नाम्नापि न स्वीकृतः ।
यच्छाखानिलयः पिशाचनिचयो यन्मूलगाः पन्नगा-
स्तस्याश्वत्थतरोः पुनः कति नमस्काराः कति प्रार्थनाः ॥
यत्पर्णे जगतां निधिः स तु वटो नाम्नापि न स्वीकृतः ।
यच्छाखानिलयः पिशाचनिचयो यन्मूलगाः पन्नगा-
स्तस्याश्वत्थतरोः पुनः कति नमस्काराः कति प्रार्थनाः ॥
Summary
AI
The Banyan tree, at whose root Shiva teaches the supreme truth and on whose leaf Vishnu rests, is not even acknowledged by name. Yet, the Ashvattha tree, whose branches house ghosts and whose roots shelter snakes, receives countless salutations and prayers. This highlights how people often revere those with fearsome associates, while ignoring the truly great and benevolent.
३०
आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च
स्वारब्धं मधु मक्षिका न कणमप्यस्य स्वयं भुञ्जते ।
धन्यस्त्वन्य उपेत्य निर्दयममूरुत्सारयन्दूरतः
स्वादं स्वादमिदं स्वसम्भृतमिव स्वच्छन्दमानन्दति ॥
स्वारब्धं मधु मक्षिका न कणमप्यस्य स्वयं भुञ्जते ।
धन्यस्त्वन्य उपेत्य निर्दयममूरुत्सारयन्दूरतः
स्वादं स्वादमिदं स्वसम्भृतमिव स्वच्छन्दमानन्दति ॥
Summary
AI
Bees come, surround, look at, and smell the honey they have produced, but they do not consume even a particle of it themselves. However, some other fortunate person, approaching and mercilessly driving them away, freely enjoys this honey, savoring it again and again as if they had gathered it themselves. This illustrates how laborers often do not enjoy the fruits of their hard work, which are instead taken by others.
३१
आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः
श्रूयन्ते गिर एव तत्त्वमिह तु ज्ञातुं विधातुः क्षमम् ।
यत्पर्णैस्त्रुटितं यदप्युपरतं पुष्पोद्गमैः शाखिनां
यद्ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ॥
श्रूयन्ते गिर एव तत्त्वमिह तु ज्ञातुं विधातुः क्षमम् ।
यत्पर्णैस्त्रुटितं यदप्युपरतं पुष्पोद्गमैः शाखिनां
यद्ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ॥
Summary
AI
Wonderful words are heard, such as 'Spring's arrival is near' and 'The empire of the forest is at hand.' But only the Creator can know the truth here. What is actually observed is that the trees are bereft of leaves, the blossoming of flowers has ceased, and the branches are withered. This points to the discrepancy between hopeful promises and a harsh reality.
३२
उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतद-
प्युत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे ।
पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति
स्तोकेनापि मनोभवो गलतु वः प्राणेषु शुष्को ग्रहः ॥
प्युत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे ।
पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति
स्तोकेनापि मनोभवो गलतु वः प्राणेषु शुष्को ग्रहः ॥
Summary
AI
We already know that Spring is ruined, as are the cuckoo's calls and the Malaya breezes. O travelers, why are you satisfied with just that? You are mistaken if you think the God of Love (Kamadeva) survives even a little. Let go of your vain insistence on life (and love's pleasures). This suggests that in times of devastation, one should not cling to false hopes based on remnants of past joys.
३३
तिक्तास्ते विटपास्त्वचो यदि ततस्तिक्तास्ततोऽपि च्छदा-
स्तेभ्योऽपि प्रसवास्ततोऽपि च फलान्येवं न दृष्टं क्वचित् ।
स्तौमि त्वामथ वा न निम्ब भवतोऽप्यासीद्यतः सम्भवः
श्रीमत्तत्किल निम्बबीजमवनौ स्तुत्यं वचःशालिनाम् ॥
स्तेभ्योऽपि प्रसवास्ततोऽपि च फलान्येवं न दृष्टं क्वचित् ।
स्तौमि त्वामथ वा न निम्ब भवतोऽप्यासीद्यतः सम्भवः
श्रीमत्तत्किल निम्बबीजमवनौ स्तुत्यं वचःशालिनाम् ॥
Summary
AI
It is not seen anywhere that if the bark is bitter, then the branches are bitter, then the leaves, then the blossoms, and then the fruits. Or rather, O Nimba tree, I do not praise you, but that glorious Nimba seed from which even you originated. Indeed, on this earth, that seed is what should be praised by the eloquent. The source of a lineage, not its flawed descendants, deserves the real praise.
३४
चूताः पल्लवमुद्रिन्ति वितरन्त्येतत्पिकेभ्यस्तत-
स्तेऽप्येतेन कुहूः कुहूरिति कलं कुर्वन्ति कूजामिति ।
निम्बोऽपि स्वयमुद्गिरन्फलमनेनाराधयन्वायसा-
न्किचित्तेषु ततो रटत्सु सफलं जन्म स्वकं मन्यते ॥
स्तेऽप्येतेन कुहूः कुहूरिति कलं कुर्वन्ति कूजामिति ।
निम्बोऽपि स्वयमुद्गिरन्फलमनेनाराधयन्वायसा-
न्किचित्तेषु ततो रटत्सु सफलं जन्म स्वकं मन्यते ॥
Summary
AI
Mango trees put forth sprouts and offer them to the cuckoos, who then use them to sing their sweet 'kuhu kuhu'. The Nimba tree, also producing its fruit and pleasing the crows with it, considers its own life fulfilled when they caw a little. This illustrates that even the lowly find satisfaction in their creations being appreciated, regardless of the quality of the appreciation or the appreciator.
३५
भोज्यं स्वादु पयः स्थितिमणिगणैरापिञ्जरे पञ्जरे
दूरे चिन्तयितुं च दंशमशकाः पारे गिरां लालनम् ।
सत्यं सर्वमथापि काननभुवि स्वाच्छन्द्यमव्याहतं
ध्यायन्ती विमना मनागपि शुकी नालम्बते निर्वृतिम् ॥
दूरे चिन्तयितुं च दंशमशकाः पारे गिरां लालनम् ।
सत्यं सर्वमथापि काननभुवि स्वाच्छन्द्यमव्याहतं
ध्यायन्ती विमना मनागपि शुकी नालम्बते निर्वृतिम् ॥
Summary
AI
The food is tasty milk, the stay is in a golden cage adorned with gems, gadflies and mosquitoes are far from thought, and the caressing is beyond words. All this is true, yet the female parrot, dejected while remembering the unhindered freedom of the forest, does not attain even a little happiness. This shows that no amount of material comfort can replace the value of freedom.
३६
प्राङ्मेघैः कियदम्बु पीतमुदधेः पीतेऽपि वृष्टं किय-
द्वृष्टे चापि कियत्प्रलीनमवनौ पीतं कियत्प्राणिभिः ।
नेदं कश्चन वेद यत्तु किमपि प्रापावशिष्टं पुन-
र्घर्मान्ते सरितां मुखेन तदभूदीर्ष्यास्पदं पश्यताम् ॥
द्वृष्टे चापि कियत्प्रलीनमवनौ पीतं कियत्प्राणिभिः ।
नेदं कश्चन वेद यत्तु किमपि प्रापावशिष्टं पुन-
र्घर्मान्ते सरितां मुखेन तदभूदीर्ष्यास्पदं पश्यताम् ॥
Summary
AI
How much water was drunk by the clouds from the ocean? Of that, how much was rained? Of that, how much was absorbed by the earth or drunk by creatures? No one knows. But whatever little remained and flowed back through the rivers at summer's end became an object of envy for all to see. This implies that even a small, visible remnant of a great fortune is more envied than the vast, unseen wealth that was spent or distributed.
३७
मेघ द्वारतया विधाय भुवनान्याप्लावस्यम्भसा
चन्द्रं द्वारतया विधाय सवितः पुष्णासि सर्वोषधीः ।
यत्त्वीषत्तपसीव तत्तु कुरुषे स्वेनैव तेनाधुना
दातृत्वं घनचन्द्रयोः परिणतं क्रौर्य तु शिष्टं त्वयि ॥
चन्द्रं द्वारतया विधाय सवितः पुष्णासि सर्वोषधीः ।
यत्त्वीषत्तपसीव तत्तु कुरुषे स्वेनैव तेनाधुना
दातृत्वं घनचन्द्रयोः परिणतं क्रौर्य तु शिष्टं त्वयि ॥
Summary
AI
O Sun, using the cloud as a medium, you flood the worlds with water. Using the moon as a medium, you nourish all herbs. But the little burning you do, you do by yourself. Therefore, the credit for generosity has gone to the cloud and the moon, while the cruelty remains with you. This criticizes a leader who uses intermediaries for good deeds but performs harsh acts directly, thus earning a bad reputation.
३८
द्वारं न प्रजहातु जातु नियतं जागर्तु रात्रीरपि
स्वल्पेनापि मुदं प्रयातु किमतः श्वा श्वैव तावानपि ।
सम्पाद्यो महता धनेन सततं भोज्यश्च सान्त्वैरिति
त्यक्त्वा मत्तगजं पदेऽस्य महतः स्थाप्यः किमेतावता ॥
स्वल्पेनापि मुदं प्रयातु किमतः श्वा श्वैव तावानपि ।
सम्पाद्यो महता धनेन सततं भोज्यश्च सान्त्वैरिति
त्यक्त्वा मत्तगजं पदेऽस्य महतः स्थाप्यः किमेतावता ॥
Summary
AI
Let a dog never leave the door, stay awake all night, and be happy with a little. So what? A dog is still just a dog. Should one, for these reasons, abandon a majestic elephant—which must be acquired with great wealth and constantly fed with kind words—and place this dog in its high position? This argues that minor virtues in a lowly person do not qualify them to replace a truly great individual, despite the latter's high maintenance.
३९
उत्पन्नाः सरितां ह्रदेषु सुचिरं तत्रैव पुष्टास्ततः
प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये ।
द्वित्रैरेव दिनैस्तिमिङ्गिलकुलस्यासाद्य कूटस्थतां
मृष्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासङ्कथाम् ॥
प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये ।
द्वित्रैरेव दिनैस्तिमिङ्गिलकुलस्यासाद्य कूटस्थतां
मृष्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासङ्कथाम् ॥
Summary
AI
Those aquatic creatures who were born and nourished for a long time in the lakes of rivers, and then reached the ocean through those very rivers in the rainy season, today, having attained the high status of the whale family in just a few days, cannot tolerate even a private mention of their humble riverine origins. This criticizes the newly successful who quickly forget and despise their modest beginnings.
४०
पन्थाः कर्दमितः पयः कलुषितं हंसाः कृता दूरतः
पीड्यन्ते च यदेवमर्थिन इति क्रूरारवैश्चातकाः ।
सोढाहे तव हे पयोद सकलं शक्नोषि दातुं स्वतः
किं त्वं शीकरमेकमप्युदधिना लोभो यदि स्वीकृतः ॥
पीड्यन्ते च यदेवमर्थिन इति क्रूरारवैश्चातकाः ।
सोढाहे तव हे पयोद सकलं शक्नोषि दातुं स्वतः
किं त्वं शीकरमेकमप्युदधिना लोभो यदि स्वीकृतः ॥
Summary
AI
O cloud, I would have borne all your faults: the path is muddied, the water polluted, the swans driven away, and the supplicant Chataka birds tormented by your harsh thunder. But if the ocean has adopted greed (and not given you water), are you able to give even a single drop by yourself? This implies that a subordinate's faults are tolerable, but their inability to perform their basic duty due to the failings of their superior is unacceptable.
४१
सर्वज्ञो यदि शङ्करो यदि महादेवो यदि प्रायशो
देवानामपि दैवतं यदि तदप्यास्तामिदं दूरतः ।
धुत्तूरैः फणिभिः कपालवलयैरन्यैश्च ते सङ्गति-
श्चूडाचन्द्रकले न तावदुचिता याचे बहिर्गम्यताम् ॥
देवानामपि दैवतं यदि तदप्यास्तामिदं दूरतः ।
धुत्तूरैः फणिभिः कपालवलयैरन्यैश्च ते सङ्गति-
श्चूडाचन्द्रकले न तावदुचिता याचे बहिर्गम्यताम् ॥
Summary
AI
O crescent moon on Shiva's crest! Even if he is Shankara, all-knowing, Mahadeva, and the deity of deities, let all that be. Your association with Datura flowers, snakes, skull-bracelets, and other such things is not at all proper for you. I beg you, please leave. This advises a noble person to dissociate from a great but disreputable master, as the bad company tarnishes their own good name, regardless of the master's greatness.
४२
अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेत्किं ततो
भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते
एतेऽद्यैव लयं ब्रजन्ति पृथुकैरेतत्कुलीनोऽपि
चेदेकः प्राणिति तावदेव तदलं तत्रैव नः संशय्-
अः
भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते
एतेऽद्यैव लयं ब्रजन्ति पृथुकैरेतत्कुलीनोऽपि
चेदेकः प्राणिति तावदेव तदलं तत्रैव नः संशय्-
अः
Summary
AI
O cloud, if the Chataka birds did not get water drops this rainy season, so what? Do you think you will give them double next season? They, along with their young, are perishing today itself. If even one of their noble family survives, that is enough; even on that point, we have our doubts. This emphasizes that help delayed is help denied, as future promises are useless to those in immediate, mortal need.
४३
वर्णस्तेऽतिमनोरमः शिरसि ते वासो मृडानीपतेः
प्रत्येतव्यतरं च काञ्चनमिति प्रौढं पुनर्नाम ते ।
किं कर्तव्यमितःपरं च भवता धुत्तूर लोकाः पुन-
र्न क्रीणन्ति न च स्पृशन्ति न च वा पश्यन्ति गन्धप्रियाः ॥
प्रत्येतव्यतरं च काञ्चनमिति प्रौढं पुनर्नाम ते ।
किं कर्तव्यमितःपरं च भवता धुत्तूर लोकाः पुन-
र्न क्रीणन्ति न च स्पृशन्ति न च वा पश्यन्ति गन्धप्रियाः ॥
Summary
AI
O Datura flower, your color is beautiful, your abode is on Shiva's head, and you have the great name 'Kanchanam' (golden). What more can be done by you? Yet, people who love fragrance neither buy, touch, nor look at you. This illustrates that high association and a good name are worthless without intrinsic merit (like fragrance). True worth is judged by inherent qualities, not external accolades.
४४
राज्यं येन कृतं न तस्य शृणुमः कामस्य नामाधुना
येषामेव गिरः पुरा परभृतैस्तैरद्य मौनं धृतम् ।
व्याप्ता येन दिशो न साम्प्रतमसौ मन्दानिलः स्पन्दते
किं ब्रूमोऽवतरन्निदाघहतको विश्वं नवं निर्ममे ॥
येषामेव गिरः पुरा परभृतैस्तैरद्य मौनं धृतम् ।
व्याप्ता येन दिशो न साम्प्रतमसौ मन्दानिलः स्पन्दते
किं ब्रूमोऽवतरन्निदाघहतको विश्वं नवं निर्ममे ॥
Summary
AI
We no longer hear the name of Kama, who once ruled. The cuckoos, whose voices were once heard, are now silent. The gentle breeze that once pervaded all directions no longer stirs. What can we say? The descending, wretched summer has created a whole new world. This describes the devastating change brought by a harsh new regime (summer), which has completely erased the glories of the previous era (spring).
४५
पीयन्तां तमसा दिशो विदधतां नीचाः पिशाचाः स्मयं
व्याक्रोशन्तु शिवाः कियच्चिरमसौ कालः सखे स्थास्यति ।
अद्योदेष्यति भानुरेष्यति दिशामद्य प्रसादो मुखे-
ध्वद्य स्वां प्रकृतिं गमिष्यति मही कोक क्षणं क्षम्यताम् ॥
व्याक्रोशन्तु शिवाः कियच्चिरमसौ कालः सखे स्थास्यति ।
अद्योदेष्यति भानुरेष्यति दिशामद्य प्रसादो मुखे-
ध्वद्य स्वां प्रकृतिं गमिष्यति मही कोक क्षणं क्षम्यताम् ॥
Summary
AI
O friend, Chakravaka bird, let the directions be swallowed by darkness, let lowly ghouls be arrogant, let jackals howl. How long will this time last? Today the sun will rise, today clarity will come to the faces of the directions, today the earth will return to its nature. Be patient for a moment. This is a message of hope, urging one to endure a dark period, for it is temporary and dawn will surely break.
४६
मेघा इत्यवतीर्य केऽपि नभसः सर्व पयो गृह्णते
यादांसीति समागतास्तत इतोऽप्यन्ये रमन्ते सुखम् ।
यस्तु स्वान्तिक एव तस्य महतस्तालस्य कालाद्वहोः
शुष्कस्यापि हि नोपयोगकणिकां पश्यामि तेनाब्धिना ॥
यादांसीति समागतास्तत इतोऽप्यन्ये रमन्ते सुखम् ।
यस्तु स्वान्तिक एव तस्य महतस्तालस्य कालाद्वहोः
शुष्कस्यापि हि नोपयोगकणिकां पश्यामि तेनाब्धिना ॥
Summary
AI
Some, descending as clouds from the sky, take all its water. Others, coming from here and there as aquatic creatures, enjoy themselves happily. But I see not even a particle of use from that ocean for the great palm tree right on its shore, which has been dry for a long time. This criticizes a great person (the ocean) who benefits distant strangers but neglects their own needy dependents.
४७
आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं
डिम्भोऽस्माकमसीति वाभिदधतां काका वराकाः स्वयम् ।
गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावद-
प्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥
डिम्भोऽस्माकमसीति वाभिदधतां काका वराकाः स्वयम् ।
गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावद-
प्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥
Summary
AI
Let the wretched crows attack that same mango tree, caw harshly, and even claim, 'You are our child!' O cuckoo, where else is there to go from here? This much must be endured. To whom can this be reported? Spring is now over. This advises a noble person to endure the insults of the unworthy who have taken over, as there is no recourse now that their patron (Spring) is gone.
४८
गन्तव्यं शिशिरेण नाम भवितव्यं नाम चूताङ्कुरै-
स्तानास्वाद्य पिकः करिष्यति तदा नाम स्वयं पञ्चमम् ।
आस्तामेष तथाविधस्त्वमसि किं काक स्वतन्त्रस्य ते
कालोऽयं स्वर एष भोज्यमिदमित्येषा कुतो यन्त्रणा ॥
स्तानास्वाद्य पिकः करिष्यति तदा नाम स्वयं पञ्चमम् ।
आस्तामेष तथाविधस्त्वमसि किं काक स्वतन्त्रस्य ते
कालोऽयं स्वर एष भोज्यमिदमित्येषा कुतो यन्त्रणा ॥
Summary
AI
Indeed, winter must pass, mango sprouts must appear, and the cuckoo, tasting them, will then sing its sweet song. Let that be as it may. But what about you, O crow? For you, who are independent, why is there this restriction that 'this is the time, this is the voice, this is the food'? This questions why the unworthy (crow) should feel constrained by seasons or propriety, as they are free from the dependencies that bind the worthy (cuckoo).
४९
काका मूर्ध्नि सुखं वसन्ति शतशः शाखासु शाखामृगा
घूकाः कोटरगह्वरेषु मशकैर्दंशैश्च सान्द्रं तलम् ।
आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः
पान्था नोपसरन्ति चेत्क्षतमितः किं वृक्षराजस्य ते ॥
घूकाः कोटरगह्वरेषु मशकैर्दंशैश्च सान्द्रं तलम् ।
आधारः कियतामसि स्थिरतरं शुद्धं च लब्धं यशः
पान्था नोपसरन्ति चेत्क्षतमितः किं वृक्षराजस्य ते ॥
Summary
AI
O king of trees, hundreds of crows live on your crown, monkeys on your branches, and owls in your hollows; your base is thick with mosquitoes. You support so many and have earned stable, pure fame. If travelers do not approach you because of these inhabitants, what harm is it to you? A great person's worth is not diminished if common people, deterred by their formidable associates, stay away.
५०
स्निग्धश्यामलकोमलं दलमतिप्रच्छायशीतं तलं
भूपर्यन्तविलम्बिजम्भलफलस्थूलं च वृत्तं फलम् ।
सम्पश्यन्विजने वने व्यवसितस्तत्रैव वस्तुं सुखं
पान्थः पान्थमुखाद्विषद्रुमममुं दैवादवेत्य द्रुतः ॥
भूपर्यन्तविलम्बिजम्भलफलस्थूलं च वृत्तं फलम् ।
सम्पश्यन्विजने वने व्यवसितस्तत्रैव वस्तुं सुखं
पान्थः पान्थमुखाद्विषद्रुमममुं दैवादवेत्य द्रुतः ॥
Summary
AI
In a lonely forest, a traveler saw a tree with smooth, dark leaves, a cool base with deep shade, and large, round fruits hanging to the ground. He decided to rest there comfortably. However, upon luckily learning from another traveler that it was a poison tree, he fled. This shows that external attractiveness can be deceptive, and one should not associate with someone of bad character, no matter how appealing they seem.
॥ इति अन्यापदेशशतकम् ॥
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.