एतच् छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान् । अतो ब्राह्मणशापान्मण्डूकान् वोढुम् अत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य जालपादनाम्नोग्रे तत् कथितम् । ततोसाव् आगत्य मण्डूकनाथस्तस्य सर्पस्य पृष्ठम् आरूढवान् । स च सर्पस्तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम । परेद्युश्चलितुम् असमर्थं तं मण्डूकनाथम् अवदत्किम् अद्य भवान्मन्दगतिः सर्पो ब्रूतेदेव ! आहारविरहाद् असमर्थोस्मि । मण्डूकनाथोवदत्स्माद् आज्ञया मण्डूकान् भक्षय । ततः गृहीतोयं महाप्रसाद इत्य् उक्त्वा क्रमशो मण्डूकान् खादितवान् । अथ निर्मण्डूकं सरो विलोक्य मण्डूकनाथोपि तेन खादितः । अतोहं ब्रवीमिस्कन्धेनापि वहेच् छत्रून् इत्य् आदि । देव ! यात्व् इदानीं पुरावृत्ताख्यानकथनं सर्वथा सन्धेयोयं हिरण्यगर्भराजा सन्धीयताम् इति मे मतिः । राजोवाच्कोयं भवतो विचारः यतो जितस्तावद् अयम् अस्माभिः । ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम् । नो चेद् विगृह्यताम् । अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तंदेव ! सिंहलद्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपम् आक्रम्यावतिष्ठते । राजा ससम्भ्रमं ब्रूतेकिं किम् शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतम् उवाच्साधु रे चक्रवाक मन्त्रिन् ! साधु ! राजा सकोपम् आहास्तां तावद् अयं गत्वा तम् एव समूलम् उन्मूलयामि । दूरदर्शी विहस्याह्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.