किन्तु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि यातु, चिरकालपालितम् इमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस्तेन नकुलेन बालकसमीपम् आगच्छन् कृष्णसर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश्च । ततोसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्तविलिप्तमुखपदः सत्वरम् उपगम्य तच्चरणयोर्लुलोठ । ततः स विप्रस्तथाविधं दृष्ट्वा मम बालकोनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस्तावद् बालकः सुस्थः स्वपिति सर्पश्च व्यापादितस्तिष्ठति । ततस्तम् उपकारकं नकुलं निरीक्ष्य, भावितचेताः स ब्राह्मणः परं विषादम् अगमत् । अतोहं ब्रवीमियोर्थतत्त्वम् अविज्ञाय इत्य् आदि । अपरं च
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.