मत्स्या ऊचुःभो बक ! कोत्र अस्माकं रक्षनोपायः बको ब्रूतेस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहम् एकैकशो युष्मान् नयामि । मत्स्या आहुः एवम् अस्तु । ततोसौ दुष्टबकस्तान्मत्स्यान् एकैकशो नीत्वा खादति । अनन्तरं कुलीरस्तम् उवाच्भो बक ! माम् अपि तत्र नय । ततो बकोप्यपूर्वकुलीरमांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरोपि मस्त्यकण्टकाकीर्णं तं स्थलम् आलोक्याचिन्तयत्हा हतोस्मि मन्दभाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.