राजाह्कथम् एतत् मेघवर्णः कथयति अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः । सोतिजीर्णतया स्वाहारम् अप्यन्वेष्टुम् अक्षमः सरस्तीरे पतित्वा स्थितः । ततो दूराद् एव केनचिन्मण्डूकेन दृष्टः, पृष्टश्च्किम् इति त्वाम् आहारं नान्विष्यति सर्पोवदत्गच्छ भद्र ! किं ते मम मन्दभाग्यस्य वृत्तान्तप्रश्नेन ततः सञ्जातकौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह । सर्पोप्याह्भद्र ! पुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशतिवर्षदेशीयः सर्वगुणसम्पन्नो दुर्दैवान्मया नृशंसेन दष्टः । ततस्तं सुशीलनामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास्तत्रागत्योपविष्टाः । तथा चोक्तम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.