शृणु देव ! किम् अस्माभिर्बलदर्पाद् दुर्गं भग्नम् उत तव प्रतापाधिष्ठितेनोपायेन राजाह्भवताम् उपायेन । गृध्रो ब्रूतेयद्य् अस्मद्वचनं क्रियते, तदा स्वदेशे गम्यताम् । अन्यथा वर्षाकाले प्राप्ते पुनस्तुल्यबलेन विग्रहे सत्य् अस्माकं परभूमिष्ठानां स्वदेशगमनम् अपि दुर्लभं भविष्यति । तत्सुखशोभार्थं सन्धाय गम्यताम् । दुर्गं भग्नं, कीर्तिश्च लब्धेव । मम संमतं तावद् एतत् । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.