Loading data... On slow networks this could take a few minutes.
100%

आसीनः सुखमापणे यदि वणिक्श्रद्धालुभिः प्रार्थितः
किञ्चिच्छंसति पञ्चकं दशकमित्येतन्न तस्याद्भुतम् ।
आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते
मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिम् ॥

अन्वयः AI यदि वणिक् आपणे सुखम् आसीनः श्रद्धालुभिः प्रार्थितः (सन्) पञ्चकम् दशकम् इति किञ्चित् शंसति, एतत् तस्य अद्भुतम् न। यः आ-पाताल-विघूर्णित-अम्भसि औत्पातिके मारुते चलति (सति) नावि मज्जन्त्याम् अपि ताम् एव मूल्य-स्थितिम् न मुञ्चति (सः अद्भुत:)।
Summary AI If a merchant, sitting comfortably in his shop, quotes a price of five or ten when requested by customers, that is no wonder. The real wonder is the one who, when the calamitous wind blows, the water is churned up to the netherworld, and even as the ship is sinking, does not give up that same price-point.
पदच्छेदः AI
आसीनःआसीन (√आस्+शानच्, १.१) sitting
सुखम्सुखम् comfortably
आपणेआपण (७.१) in the shop
यदियदि if
वणिक्वणिज् (१.१) a merchant
श्रद्धालुभिःश्रद्धालु (३.३) by faithful (customers)
प्रार्थितःप्रार्थित (प्र√अर्थ्+क्त, १.१) requested
किञ्चित्किञ्चित् (२.१) something
शंसतिशंसति (√शंस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) quotes
पञ्चकम्पञ्चक (२.१) five
दशकम्दशक (२.१) ten
इतिइति thus
एतत्एतद् (१.१) this
not
तस्यतद् (६.१) his
अद्भुतम्अद्भुत (१.१) wonder
आपातालविघूर्णिताम्भसिआपातालविघूर्णित (वि√घूर्ण्+क्त)अम्भस् (७.१) when the water is churned up to the netherworld
चलतिचलत् (√चल्+शतृ, ७.१) is blowing
औत्पातिकेऔत्पातिक (७.१) calamitous
मारुतेमारुत (७.१) wind
मज्जन्त्याम्मज्जन्ती (√मज्ज्+शतृ, ७.१) is sinking
अपिअपि even
नाविनौ (७.१) the ship
मुञ्चतिमुञ्चति (√मुच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) gives up
not
यःयद् (१.१) he who
ताम्तद् (२.१) that
एवएव very
मूल्यस्थितिम्मूल्यस्थिति (२.१) price-point
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
सी नः सु मा णे दि णि क्श्र द्धा लु भिः प्रा र्थि तः
कि ञ्चि च्छं ति ञ्च कं मि त्ये न्न स्या द्भु तम्
पा ता वि घू र्णि ता म्भ सि त्यौ त्पा ति के मा रु ते
ज्ज न्त्या पि ना वि मु ञ्च ति स्ता मे मू ल्य स्थि तिम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.