Loading data... On slow networks this could take a few minutes.
100%

आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं
डिम्भोऽस्माकमसीति वाभिदधतां काका वराकाः स्वयम् ।
गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावद-
प्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ॥

अन्वयः AI वराकाः काकाः तम् एव चूतम् आक्रामन्तु, रेफोत्तरम् क्रोशन्तु अपि च, 'अस्माकम् डिम्भः असि' इति वा स्वयम् अभिदधताम् । (हे) परभृत, ततः अन्यतः क्व गन्तव्यम्? एतावत् अपि क्षन्तव्यम् । अग्रे कस्य इदम् निवेद्यताम्? अधुना वसन्तः अतिक्रान्तः ।
Summary AI Let the wretched crows attack that same mango tree, caw harshly, and even claim, 'You are our child!' O cuckoo, where else is there to go from here? This much must be endured. To whom can this be reported? Spring is now over. This advises a noble person to endure the insults of the unworthy who have taken over, as there is no recourse now that their patron (Spring) is gone.
पदच्छेदः AI
आक्रामन्तुआक्रामन्तु (आ√क्रम् कर्तरि लोट् (परस्मै.) प्र.पु. बहु.) let them attack
तम्तद् (२.१) that
एवएव same
चूतम्चूत (२.१) mango tree
अपिअपि also
and
क्रोशन्तुक्रोशन्तु (√क्रुश् कर्तरि लोट् (परस्मै.) प्र.पु. बहु.) let them caw
रेफोत्तरंरेफउत्तर (२.१) harshly (with the letter 'r')
डिम्भःडिम्भ (१.१) child
अस्माकम्अस्मद् (६.३) our
असिअसि (√अस् कर्तरि लट् (परस्मै.) म.पु. एक.) you are
इतिइति thus
वावा or
अभिदधतांअभिदधताम् (अभि√धा कर्तरि लोट् (परस्मै.) प्र.पु. बहु.) let them say
काकाःकाक (१.३) crows
वराकाःवराक (१.३) wretched
स्वयम्स्वयम् themselves
गन्तव्यंगन्तव्य (√गम्+तव्यत्, १.१) is to be gone
क्वक्व where
ततःततः from here
अन्यतःअन्यतः elsewhere
परभृतपरभृत (८.१) O cuckoo
क्षन्तव्यम्क्षन्तव्य (√क्षम्+तव्यत्, १.१) must be endured
एतावत्एतावत् (१.१) this much
अपिअपि even
अग्रेअग्र (७.१) before
कस्यकिम् (६.१) to whom
निवेद्यताम्निवेद्यताम् (नि√विद् +णिच् भावकर्मणोः लोट् (आत्मने.) प्र.पु. एक.) should it be told
इदम्इदम् (१.१) this
अतिक्रान्तःअतिक्रान्त (अति√क्रम्+क्त, १.१) is past
वसन्तःवसन्तः (१.१) spring
अधुनाअधुना now
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
क्रा न्तु मे चू पि क्रो न्तु रे फो त्त रं
डि म्भो ऽस्मा सी ति वा भि तां का का रा काः स्व यम्
न्त व्यं क्व तो ऽन्य तः भृ क्ष न्त व्य मे ता
प्य ग्रे स्य नि वे द्य ता मि ति क्रा न्तो न्तो ऽधु ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.