९.३
विरलात पच्छविरनुष्णवपुः
परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः
परमन्दसूर्यनयनो दिवसः ॥
परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः
परमन्दसूर्यनयनो दिवसः ॥
९.८
गतवत्यराजत जपाकुसुम-
स्तबकद्युतौ दिनकरेऽवनतिम् ।
बहलानुरागकुरुविन्ददल-
प्रतिबद्धमध्यमिव दिग्वलयम् ॥
स्तबकद्युतौ दिनकरेऽवनतिम् ।
बहलानुरागकुरुविन्ददल-
प्रतिबद्धमध्यमिव दिग्वलयम् ॥
९.२२
अवधार्य कार्यगुरुतामभव-
न्न भयाय सान्द्रतमसन्तमसम् ।
सुतनोः स्तनौ च दयितोपगमे
तनुरोमराजिपथवेपथवे ॥
न्न भयाय सान्द्रतमसन्तमसम् ।
सुतनोः स्तनौ च दयितोपगमे
तनुरोमराजिपथवेपथवे ॥
९.४२
ककुभां मुखानि सहसोज्ज्वलय-
न्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः
कुसुमेषुमत्रिनयनप्रभवः ॥
न्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः
कुसुमेषुमत्रिनयनप्रभवः ॥
॥ इति नवमः सर्गः (प्रदोषवर्णनम्) ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.