उपगूढवेलमलघूर्मिभुजैः
सरितामचुक्षुपदधीशमपि ।
रजनीकरः किमिव चित्रमदो
यदुरागिणां गणमनङ्गलघुम् ॥

मल्लिनाथः उपगूढेति ॥ रजनीकरश्चन्द्रः अलघुभिरूर्मिभिरेव भुजैरुपगूढा वेला येन तम् । सावष्टम्भमिति भावः । सरितामधीशं समुद्रमपि । स्वभावादक्षोभ्यमपीति भावः । अचुक्षुभत् क्षोभयति स्म । क्षुभ्यतेर्ण्य॑न्ताल्लुङ् `णौ चड्युपधाया हस्वः` (७|४|१) । अनङ्गेन लघु गतसारं यदव एव रागिणस्तेषां गणमचुक्षुभदित्यदः किमिव चित्रम् । न किंचिदित्यर्थः । अत्राक्षोभ्यमब्धिं क्षोभयतश्चन्द्रस्य दण्डापूपिकन्यायादन्यक्षोभकत्वोक्तेरापत्त्तिरलंकारः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
गू वे घू र्मि भु जैः
रि ता चु क्षु धी पि
नी रः कि मि चि त्र दो
दु रा गि णां ङ्ग घुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.