न मनोरमास्वपि विशेषविदां
निरचेष्ट योग्यमिदमिति ।
गृहमेष्यति प्रियतमे सुदृशां
वसनाङ्गरागसुमनःसु मनः ॥

मल्लिनाथः न मनोरमास्विति ॥ प्रियतमे गृहमेष्यति आगमिष्यति सति विशेषविदामपि सुदृशां सम्यग्दर्शनीयानां स्त्रीणां मनः कर्तृ मनोरमास्वपि वसनाङ्गरागसुमनःसु वस्त्रगन्धमाल्येषु इदमेतदिति इदं पुरोवर्ति वस्त्वेतदिति वसनमिति, अनुलेपनमिति, सुमनस इति, विशेषाकारेण तथा योग्यमस्माकं धारणाहमिति च न निरचेष्ट न निरधारयत् । प्रियागमनहर्षातिरेकादितिकर्तव्यतामूढमभूदित्यर्थः । चिनोतेर्लुङि तङि च्लेः सिच् `सार्वधातुकार्धधातुकयोः` (अष्टाध्यायी ७.३.८४ ) इति गुणः । हर्षोऽत्र संचारिभावः । निश्चयसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः सुमनःसु मन इति यमकविशेषश्चेति संसृष्टिः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नो मा स्व पि वि शे वि दां
नि चे ष्ट यो ग्य मि मि ति
गृ मे ष्य ति प्रि मे सु दृ शां
ना ङ्ग रा सु नः सु नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.