प्रतिकूलमुपगते हि विधौ
विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभू-
न्न पतिष्यतः करसहस्रमपि ॥

मल्लिनाथः प्रतिकूलतामिति ॥ विधौ दैवे प्रतिकूलतामुपगते सति बहुसाधनता अनेकसाधनवत्ता विफलत्वमेति । महत्यपि साधनसंपत्तिर्निष्फलैवेत्यर्थः । तथा हि—पतिष्यत आसन्नपातस्य दिनभर्तुः करा अंशवो हस्ताश्च । `बलिहस्तांशवः कराः` इत्यमरः । तेषां सहस्रमपि अवलम्बनायावष्टम्भनाय नाभूत् । अतो दैवमेव प्रबलमिति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
प्र ति कू मु ते हि वि धौ
वि त्व मे ति हु सा ता
म्ब ना दि र्तु भू
न्न ति ष्य तः स्र पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.