Loading data... On slow networks this could take a few minutes.
100%

अपराह्नशीतलतरेण शनै-
रनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इवाह्रयते
दुदुराकुलाः खगकुलानि गिरः ॥

मल्लिनाथः अपराह्णेति ॥ अपरोऽपरभागोऽह्णोऽपराह्णो दिनान्तः । `पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे` (अष्टाध्यायी २.२.१ ) इत्येकदेशिसमासः `राजाहःसखिभ्यष्टच्` (५।४। ९१) `अह्नोऽह्न एतेभ्यः` (अष्टाध्यायी ५.४.८८ ) इत्यह्णदेशः `अह्णोऽदन्तात्` (८|४|७) इति णत्वम् । तस्मिन्नपराह्णे शीतलतरेणानिलेन शनैर्लोलिताश्चालिता लता एवाङ्गुलयो यस्य तस्मै, अत एव निलयाय निवासायाह्वयते अङ्गुलिसंज्ञया आह्वानं कुर्वाणायेव स्थितायेत्युत्प्रेक्षा । शाखिने वृक्षाय खगकुलानि पक्षिसङ्घा आकुलास्तुमुला गिर इदमागम्यत इति प्रत्युत्तराणि ददुरिवेत्यनुषङ्गादुत्प्रेक्षा
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
रा ह्न शी रे नै
नि ले लो लि ता ङ्गु ये
नि या शा खि वा ह्र ते
दु दु रा कु लाः कु ला नि गि रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.