पतिते पतङ्गमृगराजि निज-
प्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जग-
त्परितस्तमांसि परितस्तरिरे ॥

मल्लिनाथः पतित इति ॥ पतङ्गोऽर्क एव मृगराट् सिंह इति रूपकसमासः । तस्मिन्निजेन प्रतिबिम्बेन रोषिते कोपित इवेत्युत्प्रेक्षा । स्वप्रतिबिम्बे प्रतिसिंहभ्रमादिति भावः । अत एवाम्बुनिधौ पतिते सति । तजिघांसयेति भावः । भावलक्षणसप्तमी। अथाप्सु पतनानन्तरं नागयूथानि करिकुलानीव मलिनानि श्यामानि । `उपमानानि सामान्यवचनैः` (२|१|५५) इति समासः । तमांसि जगल्लोकं परितः परितस्तरिरे आच्छादयामासुः । स्तृणातेः कर्तरि लिट् । `ऋतश्च संयोगादेर्गुणः` (अष्टाध्यायी ७.४.१० ) । अत्र यद्यपि नागयूथमलिनानीत्युक्त्यानुशासनसिद्धोपमानुसारात् पतङ्गमृगराजीत्यत्राप्युपमितसमासाश्रयणेनोपमैवोचिता, तथापि तदुत्प्रेक्षायाः पतङ्गेऽसंभवात् सिंहे संभवाच्च रूपकमेव युक्तम् । तथा च रूपकानुप्राणितोत्प्रेक्षेयमुपमेति च संकरः । तत्रोत्प्रेक्षया भ्रान्तिमदुपमया रूपकं च व्यज्यत इत्यलंकारेणालंकारध्वनिरिति संक्षेपः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
ति ते ङ्ग मृ रा जि नि
प्र ति बि म्ब रो षि वा म्बु नि धौ
ना यू लि ना नि
त्प रि स्त मां सि रि स्त रि रे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.