Loading data... On slow networks this could take a few minutes.
100%

युगपद्विकासमुदयाद्गमिते
शशिनः शिलीमुखगणोऽलभत ।
द्रुतमेत्य पुष्पधनुषो धनुषः
कुमुदेऽङ्गनामनसि चावसरम् ॥

मल्लिनाथः युगपदिति ॥ पुष्पधनुः पुष्पधन्वा । `वा संज्ञायाम्` (अष्टाध्यायी ५.४.१३३ ) इति विकल्पान्नानङादेशः । तस्य धनुः पुष्पचापं, पुष्पान्तरं च तस्साच्चलितो निःसृतः शिली शल्यं मुखं येषां ते शिलीमुखा बाणाः, अलयश्च । `अलिबाणौ शिलीमुखौ` इत्यमरः । तेषां गणः शशिन उदयाद्विकासमौत्सुक्यं, उन्मीलनं च युगपदेकदा गमिते प्रापिते अङ्गानानां सुदृशां मनसि हृदये कुमुदे चावसरमवकाशमाश्वास मलभत । उभयत्र प्रवेशं लब्धवानित्यर्थः । अत्र चन्द्रोदये कुमुदकामिनीहृदययोर्द्वयोरपि प्रकृतयोः शिलीमुखप्रवेशलक्षणैकधर्मयोगादौपम्यात्तुल्ययोगिता एकधर्मत्वं चात्र शिलीमुखेति श्लिष्टपदोपात्तयोरलिबाणयोरेकत्वाध्यवसायमूलातिशयोक्तिप्रसादादिति संकरः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
यु द्वि का मु या द्ग मि ते
शि नः शि ली मु णो ऽल
द्रु मे त्य पु ष्प नु षो नु षः
कु मु दे ऽङ्ग ना सि चा रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.