अवधार्य कार्यगुरुतामभव-
न्न भयाय सान्द्रतमसन्तमसम् ।
सुतनोः स्तनौ च दयितोपगमे
तनुरोमराजिपथवेपथवे ॥

मल्लिनाथः अवधार्येति ॥ सान्द्रतमं यत्संतमसं व्यापकं तमः । `विष्वक्संतमसम्-` इत्यमरः । `अवसमन्धेभ्यस्तमसः` (अष्टाध्यायी ५.४.७९ ) इति समासान्तोऽच् प्रत्ययः । तत्कर्तृ सुतनोः शुभाङ्गया दयितोपगमे प्रियाभिसरणे कार्यगुरुतां संभोगकार्यस्यावश्यकत्वमवधार्य निश्चित्य भयाय नाभवत् । स्तनौ कुचौ च तनुः कृशो यो रोमराजेः पन्थाः रोमराजिपथो मध्यभागस्तस्य वेपथवे कम्पाय। `ट्वितोऽथुच्` (अष्टाध्यायी ३.३.८९ ) इत्यथुच् प्रत्ययः । नाभवतामिति विपरिणामेनानुषङ्गः । कार्यासक्तस्य तत्रापि&#३२; कामुकस्य कुतो भयं केशगणना चेति भावः । अत्र संतमसकुचयोः कामनिमित्ते भयकम्पानुदये कार्यगौरवावधारणहेतुकत्वोत्प्रेक्षेयमनेन व्यज्यते
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
धा र्य का र्य गु रु ता
न्न या सा न्द्र न्त सम्
सु नोः स्त नौ यि तो मे
नु रो रा जि वे वे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.