गतया पुरः प्रतिगवा-
क्षमुखं दधती रतेन भृशमुत्सुकतां ।
मुहुरन्तारालभुवम-
स्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥

मल्लिनाथः गतयेति ॥ रतेन रत्यर्थे । `प्रसितोत्सुकाभ्यां तृतीया च` (अष्टाध्यायी २.३.४४ ) इति सप्तम्यर्थे तृतीया। भृशमुत्सुकतां कालाक्षमत्वलक्षणमौत्सुक्यं दधती योषित् पुरोऽग्रे गवाक्षमुखं गवाक्षद्वारं प्रति गतयाऽपसृतया दृशा अस्तगिरेः सवितुश्चान्तरालभुवं मध्याकाशदेशं मुहुरमिमीत माति स्म । हस्तमात्रमवशिष्टमरत्निमात्रमवशिष्टमित्यादिमानकरणेनास्तमयं प्रतीक्षितवतीत्यर्थः। माङो लङि `श्लौ` (अष्टाध्यायी ६.१.१० ) इति द्विर्भावः `भृञमित्` (अष्टाध्यायी ७.४.७६ ) इत्यभ्यासस्येत्वम् । एतच्चास्तमयप्रतीक्षणभ्रमादौत्सुक्यानुभवान्तरोपलक्षणम् । अत्रौत्सुक्यभाववचनात्प्रेयोऽलंकारः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
या पु रः प्र ति वा
क्ष मु खं ती ते भृ मु त्सु तां
मु हु न्ता रा भु
स्त गि रेः वि तु श्च यो षि मि मी दृ शा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.