प्रथमं कलाभवदथार्धमथो
हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु
द्युतिशालिनोऽपि सहसोपचयम् ॥

मल्लिनाथः प्रथममिति ॥ हिमदीधितिश्चन्द्रः प्रथमं कला कलामात्रमभवत् । `कला तु षोडशो भागः` इत्यमरः । अथार्धमात्रमभवत् । अथो अनन्तरम् । `अथो अथ` इत्यमरः । उदितः साकल्यादुत्थितः सन् अमहान्महान्संपद्यमानोऽभून्महदभूत् । अभूततद्भावे च्विः । हलन्तत्वान्न कार्यान्तरप्राप्तिः । तथा हि—द्युतिशालिनस्तेजिष्ठा अपि क्रमशः क्रमेणैवोपचयं वृद्धिं दधति, सहसा झटिति तु न दधति ध्रुवम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
प्र मं ला था र्ध थो
हि दी धि ति र्म भू दु दि तः
ति ध्रु वं क्र तु
द्यु ति शा लि नो ऽपि सो यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.