Loading data... On slow networks this could take a few minutes.
100%

अदरेष्वलक्तकरसः सुदृशां
विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयो-
र्बिभिदे न शङ्खनिहितात्पयसः ॥

मल्लिनाथः अधरेष्विति ॥ सुदृशामधरेष्वोष्ठेषु अलक्तकरसो लाक्षाद्रवः तथा कपोलभुवि गण्डस्थले विशदं शुभं लोध्ररजः तथा नयनपङ्कजयोर्नवमञ्जनं च शङ्खनिहितात् पयसः क्षीरान्न बिभिदे भिन्नं नाभूत् । कर्मकर्तरि लिट् । अधरादिनिहितं लाक्षारागादिकं शङ्खनिहितक्षीरवत् सावर्ण्यादाश्रयतोऽभेदेन दुर्ग्रहमभूदित्यर्थः । अत्र यदधरालक्तकरसादिकं तच्छङ्खनिहितं क्षीरमित्येकवाक्यतया वाक्यार्थे वाक्यार्थसमारोपादसंभवद्वस्तुसंबन्धो वाक्यार्थनिष्ठो निदर्शनालंकारः । तेनाधरालक्तकादीनां गुणत एकत्वरूपः सामान्यालंकारो गम्यते । `सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता` इति लक्षणात्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
रे ष्व क्त सः सु दृ शां
वि दं पो भु वि लो ध्र जः
ञ्ज नं ङ्क यो
र्बि भि दे ङ्ख नि हि ता त्प सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.