ध्रुवमागताः प्रतिहतिं कठिने
मदनेषवः कुचतटेमहति ।
इतराङ्गवन्न यदिदं गरिम-
ग्लपितावलग्नमगमत्तनुतां ॥

मल्लिनाथः ध्रुवमिति ॥ मदनेषवः कामशराः महति कठिने कुचतटे प्रतिहतिं प्रतिघातमागताः प्राप्ता ध्रुवम् । यद्यस्माद्गरिम्णा निजभारेण ग्लपितं कार्शतमवलग्नं मध्यं येन तदिदं कुचतटमितराङ्गेन तुल्यमितराङ्गवत् । `तेन तुल्यम्-` (अष्टाध्यायी ५.१.११५ ) इति वतिप्रत्ययः । तनुतां कार्यं नागमन्नाभजत् । `पुषादि` (३।१|५५)सूत्रेण च्लेरङादेशः । तदा मदनेषुपातात् कुचातिरिक्तमङ्गनानामङ्गं कृशमासीदित्यर्थः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
ध्रु मा ताः प्र ति तिं ठि ने
ने वः कु टे ति
रा ङ्ग न्न दि दं रि
ग्ल पि ता ग्न त्त नु तां
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.