उपजीवति स्म सततं दधतः
परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथवीथिमवतीर्णवतो
निधिरम्भसामुपचयाय कलाः ॥

मल्लिनाथः उपजीवतीति ॥ अम्भसां निधिः समुद्रो वणिगिव सततं परिमुग्धतां सौन्दर्यम् , अन्यत्र मौढ्यम् । व्यवहारानभिज्ञतामिति यावत् । `मुग्धः सुन्दरमूढयोः` इति विश्वः । दधतो दधानस्य घनानां वीथिर्घनवीथिरन्तरिक्षं सा वीथिः पण्यवीथिरिवेत्युपमितसमासः । तामवतीर्णवतः प्रविष्टवत उडुपतेर्नक्षत्रनाथस्य कस्यचिद्धनिकवणिजश्व कलाः षोडशांशान्मूलधनवृद्धीश्च । `कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशेऽपि चन्द्रस्य` इति विश्वः । उपचयाय स्वाम्बुवृद्धये समृद्धये चोपजीवति स्म सेवते स्म । अन्यत्र लभते स्मेत्यर्थः । यथा क्रियादिकुशलो ह्यकुशलान्महान्तं लाभमाप्नोति तद्वदिति भावः । श्लेषसंकीर्णेयमुपमा । उपमासंकीर्णः श्लेष इत्यन्ये
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
जी ति स्म तं तः
रि मु ग्ध तां णि गि वो डु तेः
वी वी थि ती र्ण तो
नि धि म्भ सा मु या लाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.