Loading data... On slow networks this could take a few minutes.
100%

अमृतद्रवैर्विदधब्ज-
दृशाममपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि
भृशं वपुषोऽवतारयति मानविषम् ॥

मल्लिनाथः अमृतेति ॥ ओषधिपतिश्चन्द्र एवौषधिपतिर्वैद्य इति श्लिष्टरूपकम् । अमृतमेवामृतमौषधविशेषः । तेन द्रवैरार्द्रै: करैः किरणैरेव करैर्हस्तैरब्जदृशामपमार्गमङ्गपरिमार्जनं विदधत् कुर्वन् परितो विसर्पि सर्वव्यापि भृशं परितापि संतापकारि मानः कोप एव विषं तत् वपुषः शरीरादवतारयति स्म अवारोपितवान् । अत्र सावयवरूपकेणौषधलिप्तजाङ्गुलिकहस्तसंस्पर्शाद्विषमिव निशाकरकरस्पर्शादेवाङ्गनानां वपुषि रोषो न स्पृष्ट इत्युपमा व्यज्यते ॥ अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः । विससार सान्द्रतरमिन्दुरुचामधि
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
मृ द्र वै र्वि ब्ज
दृ शा मा र्ग मो धि तिः स्म रैः
रि तो वि र्पि रि ता
पि भृ शं पु षो ऽव ता ति मा वि षम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.