अथ लक्षमणागतकान्तवपु-
र्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणै-
स्तिरौघराक्षसकुलं बिभिदे ॥

मल्लिनाथः अथेति ॥ अथोदयानन्तरं लक्ष्मणा लाञ्छनेन, लक्ष्मणेन सौमित्रिणा चानुगतमनुसृतं कान्तं वपुर्यस्य सः । लक्ष्मणानुगतकान्तवपुरिति शब्दश्लेषः । वस्तुतः शब्दभेदेनार्थद्वयाभावेऽपि जतुकाष्ठवदेकशब्दप्रतीतेः । परितः समन्तादृक्षगणैर्नक्षत्रगणैः, जाम्बवदादिभल्लूकसमूहैश्च इत्यर्थश्लेषः । एकनालावलम्बिफलदयवदखण्डैकशब्दादर्थद्वयप्रतीतेः । `नक्षत्रमृक्षं भं तारा` इति । `ऋक्षाच्छभल्लभल्लूका` इति चामरः । परिवारितः शश्येव दाशरथिर्दशरथपुत्रो रामः । अत इञ् । जलधिं विलय तिमिरौघ एव राक्षसकुलं तत् बिभिदे विभेदयामास । भिदेः कर्तरि लिट् । श्लेषसंकीर्णसमस्तवस्तुवर्तिसावयवरूपकालंकारः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
क्ष णा का न्त पु
र्ज धिं वि ङ्घ्य शि दा थिः
रि वा रि तः रि क्ष णै
स्ति रौ रा क्ष कु लं बि भि दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.