Loading data... On slow networks this could take a few minutes.
100%

द्रुतशातकुम्भनिभमंशुमतो
वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृह-
द्दणडकैकतरखण्डमिव ॥

मल्लिनाथः द्रुतेति ॥ द्रुतं तप्तं यच्छातकुम्भं तपनीयम् । `तपनीयं शातकुम्भम्` इति सुवर्णपर्यायेष्वमरः । तेन सदृशं तन्निभमिति नित्यसमासः । पयसि समुद्रोदके अर्धं यथा तथा मग्नं वपुर्यस्य तस्यांशुमतोऽर्कस्य मण्डलं विरिञ्चेर्ब्रह्मणो नखेन विभिन्नस्य द्वेधाविदलितस्य बृहतो महतो जगदण्डकस्य जगदाश्रयकोशस्य ब्रह्मा ण्ढकड्स्यैकतरखण्डमन्यतरदलमिव रुरुचे रराज । अन्नोपमानस्य पुराणप्रसिद्धत्वादुपमालंकारः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
द्रु शा कु म्भ नि मं शु तो
पु र्ध ग्न पु षः सि
रु रु चे वि रि ञ्चि भि न्न बृ
द्द कै ण्ड मि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.