Loading data... On slow networks this could take a few minutes.
100%

रजनीमवाप्य रुचमाप शशी
सपदि व्यभूषयदसावपि ताम् ।
अविलम्बितक्रममहो महता-
मितरेतरकृतिमच्चरितम् ॥

मल्लिनाथः रजनीमिति ॥ शशी रजनीमवाप्य रुचं शोभामाप । असौ शश्यपि तां रजनी सपदि व्यभूषयत् । महतां सतां चरितमविलम्बितक्रमं यथा तथा इतरेतरोपकृतिमत् अन्योन्योपकारवत् अहो इत्यविलम्बादाश्चर्यम् । अत्र रजनीशशिनोर्मिथःशोभाकरत्वादन्योन्यालंकारः। `तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत्` इति लक्षणात् । तत्समर्थकश्वायमर्थान्तरन्यास इत्यङ्गाङ्गिभावेन संकरः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नी वा प्य रु मा शी
दि व्य भू सा पि ताम्
वि म्बि क्र हो ता
मि रे कृ ति च्च रि तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.