Loading data... On slow networks this could take a few minutes.
100%

विशदप्रभापरिगतं विबभा-
वुदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः
सविलासहासमिव शक्रदिशः ॥

मल्लिनाथः विशदेति ॥ विशदप्रभापरिगतं शुभ्रकान्तिव्याप्तम् । उदय इति अचलः । `उदयः पूर्वपर्वतः` इत्यमरः । तेन व्यवहितमिन्दुवपुरिन्दुमण्डलं यस्मिन् शक्रदिशः प्राच्या मुखमग्रभागः वकं च प्रतीयते तदभेदेनोत्प्रेक्ष्यते । अप्रकाशदशनमलक्ष्यदन्तं सविलासहासं सविलासस्मितमिव शनकैर्मन्दं विबभौ
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि प्र भा रि तं वि भा
वु या व्य हि ते न्दु पुः
मु प्र का नं कैः
वि ला हा मि क्र दि शः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.