Loading data... On slow networks this could take a few minutes.
100%

नवचन्द्रकाकुसुमकीर्णतमः-
कबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरे-
र्हरितो मुखे तुहिनरश्मिदलम् ॥

मल्लिनाथः नवेति ॥ नवचन्द्रिकाभिरेव कुसुमैः कीर्णं तम एव कबरी केशपाशः । `जानपद-` (अष्टाध्यायी ४.१.४२ ) इत्यादिना ङीप् । तां बिभर्तीति तद्भृतः हरेः शक्रस्य हरितो दिशो मुखेऽग्रभाग एव मुखं वक्रमिति श्लिष्टरूपकम् । तस्यैव ललाटतटवद्धारि मनोहरं हिमरश्मिदलमिन्दुखण्डं मलयजेन चन्दनेनार्द्रमिव ददृशे । धावल्यादिति भावः । अत्र नवचन्द्रिकाकुसुमेत्याद्येकदेशविवर्तिरूपकमहिम्ना हरिवधूत्वप्रतीतौ तत्सहकृतश्लेषावगतवक्त्राभेदाध्यवसितमुखसंबन्धप्रसादासादितललाटतटोपमोज्जीवनेनेन्दुदलस्यानुपात्तनिजधावल्यगुणनिमित्तमलयजार्द्रत्वगुणस्वरूपोत्प्रेक्षेति संकरः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
न्द्र का कु सु की र्ण मः
री भृ तो जा र्द्र मि
दृ शे ला हा रि रे
र्ह रि तो मु खे तु हि श्मि लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.