उपसंध्यमास्त तनु सानुमतः
शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तमयेऽपि सता-
मुतितं खलूच्चतरमेव पदम् ॥

मल्लिनाथः उपसंध्यमिति ॥ उपसंध्यं संध्यायाः समीपे । समीपार्थेऽव्ययीभावे नपुंसक त्त्वा स्वत्त्वम् । अशीतरुच उष्णांशोस्तनु करजालं तत्क्षणं तस्मिन्क्षणे । तत्कालेऽपीत्यर्थः । अत्यन्तसंयोगे द्वितीया । सानुमतोऽद्रेः शिखरेष्वास्तातिष्ठत् । आसेः कर्तरि लङ् । सतामस्तसमये नाशसमयेऽप्युच्चतरमेव पदमुन्नतस्थानमेवोचितं खलु । अर्थान्तरन्यासः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
सं ध्य मा स्त नु सा नु तः
शि रे षु त्क्ष शी रु चः
जा स्त ये ऽपि ता
मु ति तं लू च्च मे दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.