दिवसोऽनुमित्रमगमद्वलयं
किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमा-
दिति संध्ययापि सपदि व्यगमि ॥

मल्लिनाथः दिवस इति ॥ दिवसो वासरः । पुमानिति भावः । मित्रं सूर्यं, सुहृदं चानु । मित्रेण सहेत्यर्थः । `तृतीयार्थे` (१|४|८५) इत्यनोः कर्मप्रवचनीयत्वाद्वितीया । `मित्रं सुहृदि मित्रोऽर्के` इति विश्वः । विलयं नाशमगमद्गतः । गमेर्लुङि `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इति च्लेरङादेशः । अबलया स्त्रिया मया रुचिभर्तुस्तेजोनिधेः प्रेमास्पदपतेश्वास्य सूर्यस्य विरहाधिगमात् । ल्यब्लोपे पञ्चमी । विरहज्ञानं प्राप्येत्यर्थः । इहास्मिल्लोके किमास्यते किमर्थं स्थीयते । आसोर्भावे लिट् । बतेति खेदे । इतीत्थमालोच्येवेत्यर्थः । अत एव उत्प्रेक्षा । संध्ययापि सपदि व्यगमि । व्यपागामीत्यर्थः । गमेः स्वार्थण्यन्ताद्भावे लुङ् । मित्त्वाङ्र्स्वः । `अण्यन्तादुपधावृद्धिर्नायं स्याद्धेतुमण्णिचि । तस्मात् स्वार्थे णिजुत्पाद्यो मितां ह्रस्वो यतो भवेत् ॥` विगमशब्दात् `तत्करोति-` (ग०) इति ण्यन्ताल्लुङिति केचित्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
दि सो ऽनु मि त्र द्व यं
कि मि हा स्य ते या या
रु चि र्तु स्य वि हा धि मा
दि ति सं ध्य या पि दि व्य मि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.