कदलीप्रकाण्डरुचिरोरुतरौ
जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधू-
र्मकरध्वजद्विरदमाकलयत् ॥

मल्लिनाथः कदलीति ॥ वधूः कदलीप्रकाण्डरुचिरे रम्भास्तम्भसुन्दरे । उरुरेव तरुर्बन्धनवृक्षो यस्मिन् । अत्र कदलीकाण्डस्य सौन्दर्यमानोपमानत्वान्न बन्धनयोग्यवृक्ष वाचिना तरुशब्देन पुनरुक्तिः । महति जघनस्थल्येव परिसरः प्रदेशस्तस्मिन् रशनाकलापक एव गुणस्तेन मकरध्वजो मदनः स एव द्विरदस्तमाकलयदबध्नात् । रशनाबन्धेन जघनमतीव मदनोद्दीपकमासीदित्यर्थः । समस्तवस्तुवर्ति सावयवरूपकम्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
ली प्र का ण्ड रु चि रो रु रौ
स्थ ली रि रे ति
ना ला गु णे धू
र्म ध्व द्वि मा यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.