इति निश्चितप्रियतमागतयः
सितदीधितावदयवत्यबलाः ।
प्रतिकर्म कर्तुमुचक्रमिरे
समये हि सर्वमुपकारि कृतम् ॥

मल्लिनाथः इतीति ॥ इत्येवं सितदीधितावुदयवति अबलाः स्त्रियो निश्चिता प्रियतमानामागतिरागमनं याभिस्ताः सत्यः प्रतिकर्म प्रसाधनं कर्तुमुपचक्रमिरे । `प्रतिकर्म प्रसाधनम्` इत्यमरः । चन्द्रोदयात् प्रियागमनं निश्चित्य अलंकर्तुं प्रक्रान्ता इत्यर्थः । तथा हि—समये कार्यकाले कृतमनुष्ठितं सर्वं कर्म उपकार्युपकारकं भवति । अन्यथा विफलमेवेति भावः । अतो निश्चित्य प्रवृत्तिरासां युक्तेत्यर्थान्तरन्यासः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
ति नि श्चि प्रि मा यः
सि दी धि ता त्य लाः
प्र ति र्म र्तु मु क्र मि रे
ये हि र्व मु का रि कृ तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.