अथ सान्द्रसान्ध्यकिरणारुणितं
हरिहेतिहूति मिथुनं पततोः ।
पृथगुत्पपात विरहार्तिदल-
द्धृदयस्रुतासृगनुलिप्तमिव ॥

मल्लिनाथः अथेति ॥ अथ संध्योदयानन्तरं सान्द्रा ये सांध्याः संध्यायां भवाः । `संधिवेलाद्यतुनक्षत्रेभ्योऽण्` (अष्टाध्यायी ४.३.१६ ) इत्यण्प्रत्ययः । तैः किरणैररुणितमरुणीकृतमत एव विरहात् र्या. विरहवेदनया दलतो दीर्यमाणाद्धृदयात् स्रुतेन क्षरितेनासृजा रुधिरेणानुलिप्तमिव स्थितमित्युत्प्रेक्षा । हरेर्विष्णोर्हेतिरायुधम् । चक्रमित्यर्थः । `हेतिः शस्त्रे तु नृस्त्रियोः` इति केशवः । हरिहेतेर्हूतिरिव हूतिराह्वा यस्य तद्धरिहेतिहूति । चक्राह्वमित्यर्थः । पततोः पत्रिणोः । `पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः` इत्यमरः । मिथुनम् । चक्रवाकद्वन्द्वमित्यर्थः । पृथक् भेदेनोत्पपात उदडीयत
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
सा न्द्र सा न्ध्य कि णा रु णि तं
रि हे ति हू ति मि थु नं तोः
पृ गु त्प पा वि हा र्ति
द्धृ स्रु ता सृ नु लि प्त मि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.