Loading data... On slow networks this could take a few minutes.
100%

कलया तुषारकिरणस्य पुरः
परिमन्दभिन्नतिमिरौघजटम् ।
क्षणमभ्यपद्यत जनैर्न मृषा
गगनं गणादिपतिमूर्तिरिति ॥

मल्लिनाथः कलयेति ॥ पुरः प्राच्यामग्रभागे च तुषारकिरणस्येन्दोः कलया किरणेन अन्यत्रोपलक्षितं परिमन्दमल्पं भिन्ना विदलितास्तिमिरौघा एव जटा यस्य तत् गगनं न मृषा सत्यम् । गणाधिपतेः प्रमथपतेरीश्वरस्य । `गणाः प्रमथसंख्यौघाः` इति वैजयन्ती । मूर्तिरिति जनैः क्षणमभ्यपद्यत । `गगनमष्टानां शिवमूर्तीनामन्यतममिति यत्तत्सत्यम्, अभिपन्नमित्यर्थः । कलामात्रोदितश्चन्द्र इति फलितोऽर्थः । रूपकालंकारः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
या तु षा कि स्य पु रः
रि न्द भि न्न ति मि रौ टम्
क्ष भ्य द्य नै र्न मृ षा
नं णा दि ति मू र्ति रि ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.