Loading data... On slow networks this could take a few minutes.
100%

भजते विदेशमधिकेन जित-
स्तदनुप्रवेशमथवा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः
प्रतिमाच्छलेन सुदृशामविशत् ॥

मल्लिनाथः भजत इति ॥ अधिकेन प्रबलेन जितो विदेशं देशान्तरं भजते, अथवा कुशलः कार्यचतुरः तदनुप्रवेशं भजते । तमेव शरणतया प्रविश्य जीवतीत्यर्थः । अतो हेतोरिन्दुरुज्वलौ कपोलौ यस्य तदिति मुखस्य बिम्बग्रहणयोग्यतोक्तेः पदार्थहेतुकं काव्यलिङ्गम् । सुदृशां मुखं प्रतिमाच्छलेन प्रतिबिम्बव्याजेनाविशत् प्रविष्टः । साक्षाच्चन्द्र एवायं न प्रतिमाचन्द्र इति छलशब्दात्प्रतीतेः छलशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः । पूर्वोक्तकाव्यलिङ्गसापेक्ष इति संकरः । तेन कपोलयोर्लोकोत्तरं लावण्यं दर्पणौपम्यं च व्यज्यत इत्यलंकारेणालंकारध्वनिः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
ते वि दे धि के जि
स्त नु प्र वे वा कु लः
मु मि न्दु रु ज्ज्व पो तः
प्र ति मा च्छ ले सु दृ शा वि शत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.