Loading data... On slow networks this could take a few minutes.
100%

निलयः श्रियः सततमेतदिति
प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो
चपलाजनं प्रति न चोद्यमदः ॥

मल्लिनाथः निलय इति ॥ यदेव जले जन्म यस्य तज्जलजन्म जलजमेतदेव सततं श्रियो निलय आलय इति प्रथितं प्रसिद्धम् । `निकाययनिलयालयाः` इत्यमरः । तदपि । नित्यवासभूतमपीत्यर्थः । तया श्रिया दिवसात्यये सायंकाले मुक्तम् । अहो देवानामपि कृतघ्नत्वं यदापदि महोपकारिणस्त्याग इत्याश्चर्यम् । अथवा चपला चापलवती स्त्री, कमला च । `चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च` इति विश्वः । सैव जनश्वपलाजनः । `जातेश्च` (अष्टाध्यायी ६.३.४१ ) इति `संज्ञापूरण्योश्च` (अष्टाध्यायी ६.३.३८ ) इति चोभयत्रापि पुंवद्भावप्रतिषेधः । तं प्रति । तस्मिन्नित्यर्थः । अद इदं कृतघ्नत्वं चोद्यं चोदनीयं कथमित्याक्षेप्यं न । चपलत्वान्नाश्चर्यमेतदिति भावः । श्लेषमूलातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नि यः श्रि यः मे दि ति
प्र थि तं दे न्म या
दि सा त्य या त्त पि मु क्त हो
ला नं प्र ति चो द्य दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.